________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
250
विशेषा०
यथा मतः फलके नानाप्रकारं लिखितमपि वस्तु ग्रन्थतः पठति, अर्थतश्च प्रभाषते - व्याचष्टे, शलाकाङ्गुल्यादिना च बालगोपालाङ्गनादिमुग्धबोधनार्थ प्रतिवस्त्वपरजन्माचीर्ण कर्मविपाकादिकं दर्शयति, यथा- अन्यजन्मन्यनया भर्ता साटिकया वश्वितः सेनाsस्या ईदृशो मातङ्गकुलजन्मादिको विपाकः अनया च भर्तृमित्रे प्राघूर्णके समायाते मुखपोटको दस आसीत् अनया तु सत्यपि ford भिक्षाचरेागच्छत्सु सदैव 'नास्ति नास्ति' इत्यायेवो घुष्टम् तेनेदृश ईदशय दुःखविपाको जात इत्यादि, तथाऽत्रापि श्रोतtarius सर्वानुग्रहप्रवणबुद्धिराचार्यः सूत्रे निर्युक्तानप्यर्थान् नियुक्त्या विभापत इति ।। १०८९ ।।
अथवा निर्युक्तिगाथोत्तरार्धमन्यथा व्याख्यायते । कथम् १, इत्याह
अहवा सुयपरिवाड़ी सुयोवएसोऽयमेव जदवरसं । सोयव्त्रं निस्संकियसुयविणयत्थं सुबोहं पि ॥ १०९०॥
अथवा, श्रुतपरिपाटी श्रुतस्य विधिः श्रुतस्योपदेशोऽयमेव यदवश्यं सुबोधमपि श्रुतं निःशङ्कितत्वहेतोर्विनयोपचारांचक्षुभिः श्रोतव्यम् । अत एवंभूता सूत्रपरिपाटी यद्यपि सूत्रे निर्युक्ता एवार्थाः सन्ति, तथापि विभाषितुं व्याख्यानयितुमेषयति प्रयोजयति, इत्येषोऽत्र भावार्थः स्वयमेवात्र गन्तव्य इति ।। १०९० ।।
'सूत्रपरिपाटी' इति पाठान्तरं कचित्, तत्राह -
इच्छह विभासिउं मे सुयपरिवार्डि न सुट्टु बुज्झामि । नातिमई वा सीसो गुरुमिच्छावे बोत्तुं जे॥ १०९१॥ 'वा' इत्यथवा, नातिशयेन मतिर्यस्याऽसौ नातिमतिर्मन्दमतिः शिष्यो गुरुमाचार्य 'इच्छावे ति' एषयति प्रयोजयति वक्तुम् । 'जे' इत्यलङ्कारार्थः । कथं वक्तुमेषयति १, इत्याह- 'इच्छह विभासि मे सि' इच्छत इच्छत विभाषितुं मम श्रुतपरिपाटीं सूत्रपद्धतिम्, नामेतां सुठ बुध्ये प्रथममेव निर्युक्तत्वेन सतोऽप्येतदभिधेयानर्थान् मन्दमतित्वाद् भवद्भिरव्याख्यातान् नाहं सम्यगवच्छामीत्यर्थः । अथवा क्रमादेवेह नियुक्तिः प्रयोक्त्री विवक्ष्यते । ततश्वत्थमक्षरयोजना- यद्यपि मूत्रे निर्युक्तत्वेन सन्त एवार्थाः, तथापि तानप्रतिबुध्यमानः श्रोता यदैवं वक्ति- नातिमतिर्मन्दमतिरहं संदर्थामपि सूत्रपरिपाटी सुष्ठु न बुध्ये सम्यग् नावगच्छामि, अत इच्छत इच्छत प्रभो ! एतां मम विभाषितुमिति । तदित्थं वदति तस्मिन् श्रोतरि नियुक्तिरेव गुरुं सूत्रपरिपाटीं वक्तुमेषयति प्रयोजयति१ अथवा श्रुतपरिपाटी श्रुतीपदेशोऽयमेव यदवश्यम् । श्रोतव्यं निःशङ्कितश्रुतविनयाथं सुबोधमपि ॥ १०९० ॥ २क. ग. 'सु' । ३ विभाषितुं मम श्रुतपरिवादी न सुष्ठु बुध्ये नातिमतिवां शिष्यो गुरुमेपयति वक्तुम् ॥ १०१ ॥ इच्छत इच्छताम्मै महानुभावायैतां विभाषितुम् । ततो नियुक्तिद्वारेणैव तस्य शिष्यस्य गुरुस्तां विभाषत इति । तदेवं 'निज्जुत्ता ते अस्था' इत्यादिप्राक्तननियुक्तिगाथा व्याख्याता ॥ १०९१ ॥
अथोरगाथासंवन्धनार्थमाह
* प्रसूतं - 1
Acharya Shri Kailassagarsuri Gyanmandir
तो सूयमागमारियपरंपराइ सुयनाणं । सामाइयाइयमिदं सव्वं चिय सुत्तमत्थो वा ? ॥ १०९२ ॥ ननु पूर्व भवतेदमुक्तम्- 'आचार्य परम्परया समागतां सामायिकनियुक्तिमहं वक्ष्ये' । तत्रेदं पृच्छयते- 'कत्तो पमूयमित्यादि' आदौ कुतः पुरुषविशेषात् प्रसूतामुत्पन्नां सतीं तत आचार्यपरम्परयाऽगतामायातां तां सामायिकनियुक्तिं त्वं वक्ष्यसि ? इत्युपस्कारः । तथा, इदमपि पृच्छयते । किम् ?, इत्याह- 'सुयनाणमित्यादि' सर्वमपि च सामायिकादिकं विन्दुसारपर्यन्तं सूत्रार्थरूपं श्रुतज्ञानमिदं प्रथमं कुतः प्रस्तुतं सत् पश्चादाचार्य परम्परयाऽवागतम् ? इति ।। १०९२ ।।
एवमुत्तरगाथा प्रस्तावनां कुर्वन्नाचार्य आत्मनः प्रेर्यमाशङ्कय परिहरन्नाह
यं न भणियं चि अत्थपुहत्तस्स तेहिं कहियस्स । इह तेसिं चिय सीलाइकहण - गहणं फलविसेसो ॥ १०९३॥
x
ननु 'सामायिकनिर्युक्तिः श्रुतज्ञानं वा सर्व कुतः पुरुषात् प्रथमं प्रसूतम् ?, इत्यत्र यद् भणितमेव प्रोक्तमेव निर्णीतामेवेत्यर्थः । क इत्याह- 'अत्थपुहत्तस्सेत्यादि' 'तैस्तीर्थकर - गणधरैः कथितस्याऽर्थपृथकयरूपस्य श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्ये' इत्युक्ते तीर्थकर - गणधरेभ्यः सर्वमपि श्रुतज्ञानमादौ सितम् इत्युक्तमेव, तत् किमिति पुनरपि प्रश्नः ? । अत्र प्रतिविधानमाह - 'इहेत्यादि' सत्यम्, ज्ञातमेवेदं यत्- तीर्थकर - गणधरेभ्य एव सर्वमिदमादौ प्रसूतम्, किन्त्विह तेषामेव तीर्थकर गणधराणां शीलादिखरूपकथनम्, ग्रन्थनम्, फलविशेषश्च विशेषतोऽभिधास्यते, इत्ययं पुनरपि प्रश्नोत्तरोपन्यासः । तत्र तीर्थकृतां तपो-नियमज्ञानानि शीलमभिधास्यते, आदिशब्दः स्वगतभेदप्रख्यापकः, तान्येव वृक्षः, तदारूढस्य पुष्पप्रक्षेपकल्पा तु देशना कथनम्, तत्फलविशेषस्तु भव्यजनविवोधनार्थतेति । गणधराणां तु बुद्धिमयपटेन तीर्थकरोक्तं गृहीत्वा सूत्रग्रन्थनं प्रतिपादयिष्यते, फलविशेषस्तु प्रवचनार्थता, सुखग्रहणाद्यनुग्रहश्च ॥ इति गाथाष्टकार्यः ।। १०९३ ॥
१ गाथा १०८५ | २ कुतः प्रसूतमागतमाचार्य परम्परया श्रुतज्ञानम् । सामायिकादिकमिदं सर्वमेव सूत्रमर्थो वा ॥ १०९२ ॥ ३ एतद् ननु भणितमेवार्थपृथक्त्वस्य तैः कथितस्य । इह तेषामेव शीखादिकथन- प्रन्थने फलविशेषः ॥ १०९३ ॥
प्रस्तुतम्- |
For Private and Personal Use Only