________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
232 विशेषा०
उवमा-रूवगदोसो निदेस-पयत्थ संधिदोसो य । एए उ सुत्तदोसा बत्तीसं होति नायव्वा ॥ ४ ॥" तत्राऽलीकमभूतोद्भावनम् , भूतनिहवश्व ; यथा- 'ईश्वरकर्तृकं जगत्' इत्याद्यभूतोद्भावनम् , 'नास्त्यात्मा' इत्यादिकस्तु भूतनिहवः। उपघातजनक सचोपघातादिपवर्तकम् , यथा- 'वेदविहिता हिंसा धर्माय' इत्यादि । निरर्थकम्- यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते, न त्वर्थः, यथा-- 'अ आ इ ई' इत्यादि, डित्यादिवद् वेति । अपार्थकम्- असंबद्धार्थम् , यथा- 'दश दाडिमानि, पडपूपाः, कुण्डमजाजिनम् , पललपिण्डा, त्वर कीटिके, दिशमुदीचीम्' इत्यादि। यत्राऽनिष्टस्याऽर्थान्तरस्य संभवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलम् , यथा- 'नवकम्बलो देवदत्तः' इत्यादि । जन्तूनामहितोपदेशेन पापव्यापारपोषकत्वाद् द्रोहस्वभावं दुहिलम्, यथा
"यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन नासौ लिप्येत कर्मणा ॥१॥" तथा
. "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्ति बहुश्रुताः ॥ १॥" "पिब खाद च साधु शोभने ! यदतीतं वरगात्रि! तद् न ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ १॥"
इत्यादि । निःसारम्- वेदवचनादिवत् तथाविधयुक्तिविकलं परिफलिवति । अधिकम्- अक्षर-मात्रा-पदादिभिरभ्यधिकम् । तैरेव हीनमूनम् । अथवा, हेतू-दाहरणाभ्यधिकमधिकम् , यथा- 'अनित्यः शब्दः, कृतकत्व-अयनानन्तरीयकत्वाभ्याम्' इति हेत धिकम् , 'अनित्यः शब्दः, कृतकत्वात् , घट-पटवत्' इत्युदाहरणाधिकमित्यादि । एताभ्यामेव हीनमूनम् , यथा 'अनित्यः शब्दः, घटवन्' इति हेतूनम् , 'अनित्यः शब्दः, कृतकत्वात्' इत्युदाहरणहीनमित्यादि । पुनरुक्तं द्विधा- शब्दतः, अर्थतश्च । तथा, अर्थापनस्य पुनर्वचनं च पुनरुक्तम् । तत्र शब्दतः पुनरुक्तं यथा-- 'घटः, घटः, घटः' इत्यादि । अर्थतः पुनरुक्तं यथा- 'घटः, कुटः, कुम्भः' इत्यादि । अर्थापन्नस्य पुनर्वचनं यथा- 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्युक्तेऽर्थादेव गम्यते- 'रात्रौ भुङ्क्ते' इति । तत्रार्थापनमपि यः साक्षादेतद् ब्रूयात् , तस्य पुनरुक्तता । व्याहतं यत्र पूर्वेण परं विहन्यते, यथा- 'कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम्' इत्यादि । अयुक्तम्- अनुपपत्तिक्षमम् , यथा
1 उपमा-रूपकदापो निर्देश-पदार्थ-संधिदोपश्च । एते तु सूत्रदोषा द्वात्रिंशद् भवन्ति ज्ञातव्याः ॥ ४ ॥
" तेपां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा हस्त्य-ऽश्व-रथावहिनी ॥ १॥" इत्यादि ॥१॥
क्रमभिन्नम्- यत्र क्रमो नाराध्यते, यथा- 'स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणामर्थाः स्पर्श-रस-गन्ध-रूप-शब्दाः' इति वक्तव्ये 'स्पर्श-रूप-शब्द-गन्ध-रसाः' इति बृयादित्यादि । वचनभिन्नम्- यत्र वचनव्यत्ययः, यथा- 'वृक्षावेतौ पुष्पिताः' इत्यादि । विभक्तिभिन्नम् , यथा- 'वृक्षं पश्य' इति वाच्ये 'वृक्षः पश्य' इति वदेदित्यादि । लिङ्गभिन्नम्- यत्र लिङ्गव्यत्ययः, यथा- 'अयं स्त्री' इत्यादि । अनभिहितम्- स्वसिद्धान्तेऽनुपदिष्टम् , यथा- 'सप्तमः पदार्थों वैशेषिकस्य, प्रकृति-पुरुषाभ्यामभ्यधिकं सांख्यस्य, दुःख-समुदय-मार्गनिरोधलक्षणचतुरार्यसत्यातिरिक्तं वा वौद्धस्य' इत्यादि । पद्यबन्धेऽन्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानमपदम् , यथा- 'आर्यापदेभिधातव्ये वैतालीयपदमभिदध्यात्' इत्यादि । यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते, तत् स्वभावहीनम् , यथा- 'शीतो बतिः, मूर्तिमदाकाशम्' इत्यादि । यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते, तद् व्यवहितम् ॥२॥
कालदोपः- यत्राऽतीतादिकालव्यत्ययः, यथा- 'रामो वैनं प्रविवेश' इति वक्तव्ये 'रामो वनं प्रविशति' इत्याहेत्यादि । यतिदोष:- अस्थानविरतिः, सर्वथाऽविरतिर्वेति । छविरलङ्कारविशेषस्तेजस्विता तद्रहिते छविदोषः। समैयविरुद्धम्-खसिद्धान्तविरोधि, यथा- 'सांख्यस्याऽसत् कारणे कार्यम् , वैशेषिकस्य वा सत्' इत्यादि । वचनमात्रम्-निर्हेतुकम् , यथा- 'कश्चिद् यथेच्छया कश्चित् प्रदेश लोकमध्यतया जनेभ्यः प्ररूपयति' । यत्रार्थापत्याऽनिष्टमापतति, तत्रार्थापत्तिदोपः, यथा- 'गृहकुक्कुरो न हन्तव्यः' इत्युक्तेऽर्थापच्या 'शेषघातोऽदुष्टः' इत्यापतति । यत्र समासविधिप्राप्तौ समासं न करोति, व्यत्ययेन वा करोति, तत्र समासदोषः॥३॥
उपमादोपः- यत्र हीनोपमा क्रियते, यथा- 'मेरुः सर्पपोपमः' अधिकोपमा वा क्रियते, यथा- 'सर्पपो मेरुसंनिभः' । अनु. पमा वाऽभिधीयते, यथा- 'मेरुः समुद्रोपमः' इत्यादि । स्वरूपभूतानामवयवानामरूपणम् , व्यत्ययरूपणं वा स रूपकदोषः, यथा- 'पर्वते रूपयितव्ये तत्स्वरूपभूतान् शिखरादीनवयवान् न रूपयति; अन्यस्य वा समुद्रादेः संबन्धिनस्तांस्तत्र रूपयति' इत्यादि । निर्देशदोषःयत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथा- 'इह देवदत्तः स्थाल्यां पचति' इत्यभिधातव्ये पचतिशब्दं नाभिधत्ते । पदार्थदोषः-- यत्र वस्तुपर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते, यथा-सतो भावः सत्तेति कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदा
१क. ग, 'न वि' । २ घ. छ. 'नं वि' । ३ क. ग. 'मये वि'1x कटो-1
For Private and Personal Use Only