________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
178
विशेषा०
मवषिः सर्वकालं नियतोऽवस्थित एव भवति, न स्वन्याकारतया परिणमति । तिर्यग्-मनुष्याणां तु येनाकारेण प्रथममुत्पमोऽवधिः केषांचित् तेनैवाकारेण सर्वकालं भवति, केषाचित् त्वन्याकारेण परिणमतीति ॥ ७०८ ॥ ७०९ ॥ १०॥ ७११॥
अथ यदुक्तम्- "तिरिय-मणुएस ओही' इत्यादि, तद् व्याचिख्यासुराहनाणागारो तिरिय-मणुएसु मच्छा सयंभूरमणे व्व । तत्थ वलयं निसिद्धं तस्सिह पुण तं पि होजाहि ॥७१२॥
तत्र स्वयंभूरमणे तस्य मत्स्यस्याऽऽकारविषये वलयं निषिद्धम् , इह पुनस्तिर्यम्-मनुष्येषु, तस्यावधे। इत्येतदप्यावृत्त्या योज्यते, तदपि वलयाकारमाश्रित्य भवेत् । शेषं सुगममिति ।। ७१२ ॥ तदेवं संस्थाने मोक्तेऽपि 'कयापि दिशा बहुरवधिः, कयापि तु स्तोकः' इति न ज्ञायते । अत एतद् भवनपत्यादीनां दर्शयमाह
भवणवइ-वंतराणं उड्ढे बहुगो अहो य सेसाणं । नारग-जोइसियाणं तिरियं ओरालिओ चित्तो ॥ ७१३ ॥
नारक-ज्योतिष्काणामवधिस्तिर्यग् बहुः, तिर्यग्-मनुष्याणां तु संबन्धी अवधिरौदारिकावधिरुच्यते । अयं पुनश्चित्रो नानापप्रकार:- केषांचिदूर्वं बहुः, अन्येषां वधा, अपरेषां तिर्यक् । केषांचित् स्वल्प इति भावः । शेषं सुगमम् । इति गाथासप्तकार्थः।।७१३।।
॥ इत्यवसितं संस्थानद्वारमिति ॥ __ अथ सप्रतिपक्षमानुगामुकद्वारमाह
"अणुगामिओ य ओही नेरइयाणं तहेव देवाणं । अणुगामी अणणुगामी मीसो य मणुस्स-तेरिच्छे।।७१४॥
अनुगमनशील आनुगामुका, यः समुत्पन्नोऽवधिः स्वस्वामिनं देशान्तरमभिवजन्तमनुगच्छति, लोचनवत् , असावानुगामुक इत्यर्थः। ईदृश एवावधिर्भवति, केषाम् , इत्याह-नारकाणां तथा देवानां चेति । तथा, आनुगामुक उक्तस्वरूपः, अनानुगामुकस्त्ववस्थितभालादिनियन्त्रितमदीपवद् विपरीतः। यस्य तूत्पन्नस्यावधेर्देशो ब्रजति स्वामिना सहाऽन्यत्र, देशस्तु प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न ब्रजति, असौ मिश्र उच्यते । एष त्रिविधोऽप्यवधिर्मनुष्येषु तिर्यक्षु च भवति ॥ इति नियुक्तिगाथार्थः ॥ ७१४ ॥ १ गाथा ७०६। २ नानाकारस्तिर्यग्-मनुजेषु मत्स्याः स्वयंभूरमण इव । तत्र वलयं निषिद्धं तस्येह पुनस्तदपि भवेत् ॥ १२॥+सवतिष्यति- -
३ भवनपति-व्यन्तराणामूर्व बहुकोऽधश्च शेषाणाम् । वारक-ज्योतिष्काणां तिर्यगौदारिकश्चित्रः॥७३॥xतल्य:
४ अनुगामुकश्चावधिनैरयिकाणां तथैव देवानाम् । अनुगामी, अननुगामी मिश्रश्च मनुष्य-तिर्यक्षु ॥ ४॥ मोऽणणअथ माष्यम्
अणुगामिओ अणुगच्छइ गच्छंतं, लोयणं जहा पुरिसं । इयरो य नाणुगच्छइ ठियपईवो व्व गच्छंतं ॥७१५॥ ३७ । उभयसहावो मीसो देसो जस्साणुजाइ नो अन्नो । कासइ गयस्स गच्छइ एगं उवहयम्मि जहच्छि ॥७१६॥ गतार्थे एव ॥ ७१५॥७१६ ॥
॥ उक्तमानुगामुकद्वारम् ॥ अथावस्थितद्वारमुच्यते- अवस्थितं चावधेराधारभूतक्षेत्रतः, उपयोगतो लब्धितच चिन्तनीयम् । तत्र क्षेत्रत उपयोगतबाह
खित्तस्स अवट्ठाणं तेत्तीसं सागरा उ कालेणं । दव्वे भिन्नमुहुत्तो पज्जवलंभे य सत्तह ॥ ७१७ ॥
अवधेराधारपर्यायेण क्षेत्रस्यावस्थानं त्रयस्त्रिंशदेव सागरोपमाणि कालेन कालमाश्रित्य भवति । इदमुक्तं भवति-अनुत्तरसुरा यत्र क्षेत्रे जन्मसमयेऽवगाढास्तत्रैवाऽऽभवक्षयमवतिष्ठन्ते, अतस्तत्संबन्धिनोऽवधेरेका क्षेत्रे त्रयविंशत्सागरोपमल ते। उपयोगतस्त्ववधेः सुर-नारक-पुद्गलादिके द्रव्ये द्रव्यविषयमुपयोगमाश्रित्य तत्राऽन्यत्र वा क्षेत्रे भिन्नमुहूर्तोऽन्तर्मुहूर्तमेवाऽवस्थानं, न परता, सामर्थ्याभावादिति । तत्रैव द्रव्ये ये पर्यवाः पर्याया धर्मास्तल्लाभे पर्यायान् पर्यायान्तरं च संचरतोऽवधेस्तदुपयोगे सप्ताअष्टौ वा समयानऽवस्थानं, न परतः। अन्ये तु व्याचक्षते- पर्यवा द्विविधा:- गुणाः, पर्यायान । तत्र सहवर्तिनो गुणाः शुक्लादया, क्रमवर्तिनस्तु पर्याया नव-पुराणादयः । तत्र गुणेष्वष्टौ समयानवध्युपयोगावस्थानं, पर्यायेषु सप्त समयानिति, स्थूलं हि द्रव्यं, तेन तत्रान्तर्मुहूर्त तदुपयोगस्थितिः, गुणास्तु ततः सूक्ष्मास्तेनैतेष्वष्टौ समयान् । गुणेभ्योऽपि पर्यायाः सूक्ष्मा इति तेषु सप्त समयांनिति भावः ॥७१७॥
अथ लब्धितोऽवध्यवस्थानमाहअडाए अवट्ठाणं छावहि सागरा उ कालेणं । उक्कोसगं तु एवं एक्को समओ जहन्नेणं ॥ ७१८ ॥
। अनुगामुकोऽनुगच्छति गच्छन्तं, कोचनं यथा पुरुषम् । इतरश्च नानुगच्छति स्थितप्रदीप इव गान्तम् ॥१५॥ . उभयस्वभावो मिश्रो देशो यस्याऽनुयाति मो अन्यः । कस्यचिद् गतस्य गच्छति एकमुपहते यथाशक्षि ॥ १६॥ २ क्षेत्रस्यावस्थानं त्रयस्त्रिंशत् सागरास्तु कालेन । द्रव्ये भिन्नमुहूर्तः पर्यवलाभे च ससाऽष्ट || १७॥ अखायामवस्थान द्वाषष्टिः सागरास्तु कालेन । उत्कृष्टकं स्वेतदेका समयो जघन्य ॥10॥
For Private and Personal Use Only