________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
158
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
यो हि योजनसहस्रायामो महाकायो मत्स्यः, त्रिभिश्च समयैरात्मानं संक्षिपति, स किल प्रयत्नविशेषादतिसूक्ष्मामवगाहनां कुरुते, नान्यः । अनेन 'किमिति मत्स्योऽतिमहान् गृह्यते, तृतीयसमयसंक्षिप्तत्र ?" इत्येतस्योत्तरमदायि । दूरे च गत्वाऽन्यत्र यद्युत्पद्यते, विग्रहेण च गच्छति, तदा जीवप्रदेशाः किश्विद्विस्तरं यान्तीत्यवगाहना स्थूलतरा स्यात् इत्यविग्रहगत्या स्वशरीरदेश एवोत्पादित इत्येतत् स्वयमेव द्रष्टव्यमिति । 'कीस वा सुहमो' इत्यादेरुत्तरमाह- 'सहयरा इत्यादि' श्लक्ष्णादपि श्लक्ष्णतरस्तावद् भवति । कः ?, पनकः । कथंभूतः १, सूक्ष्मः, जघन्यदेहश्व जघन्यावगाहश्चेत्यर्थः । वस्तुतोऽर्थतात्पर्यमाह- 'सुबहु इत्यादि' 'जो जोयणसाहस्सो' इत्याद्युक्तमकारेण सुविशेषणविशिष्टो गृह्यमाणः पनकजीवः सूक्ष्मतरः सूक्ष्मतमश्च सर्वदेहेभ्यो भवतीति ।। ५९३ ।। ५९४ ।।
or 'ff त्रिसमाहारः १" इत्यस्योत्तरमाह
ढम- बिईए अतिस हो जमइत्थूलो वउत्थयाईसु । तईयसमयम्मि जोग्गो गहिओ तो तिसमयाहारो ॥ ५९५॥ यस्मात् प्रथम-द्वितीययोः समययोरतिसूक्ष्मो भवति, चतुर्थादिषु चातिस्थूलः संपद्यते, तृतीयसमये तु योग्यः अतस्त्रिसमयाहारग्रहणमिति ।। ५९५ ॥
अत्र केषांचिन्मतमुद्भावयन्नाह -
"केई दो इससमया तईओ पणगत्तणोववायम्मि । अह तिसमओ आहारओ य सुहुमो य पणओ य ॥५९६॥ उबवाए चेत्र तओ जओ जहण्णो न सेससमयेसु । तो किर तद्देहसमाणमोहिखित्तं जहणं तु ॥ ५९७ ॥
त्रिसमयाहारकत्वविषये केचनाऽप्याचार्या व्याचक्षते यदुत - द्वौ तावज्झषस्य मत्स्यस्य संबन्धिनावाद्यसमयौ गृह्येते - आयामसंहारमतरकरणलक्षणः प्रथमः, सूचि तु यत्र करोति स द्वितीयः तृतीयसमयस्तु तां संक्षिप्य पनकत्वेनोत्पादे भवति । ततश्च त्रयः समया यस्यासौ त्रिसमयः, अविग्रहेणोत्पत्तेराहारकश्च । एवं च सति प्रत्युताऽतिसूक्ष्मश्च पनकश्चायं सिद्धो भवति । तथा च सति "ति
१ क.ख.ग. 'त्स्यो म' । २ गाथा ५९२ । ३ गाथा ५८९ ।
४ प्रथम द्वितीययोरतिसूक्ष्मो यदीतस्थूलश्चतुर्थका दिपु । तृतीयसमये योग्यो गृहीतस्ततखिसमयाहारः ॥ ५९५ ॥
५ केचिद् द्रो झपसमयौ तृतीयः पनकत्वोपपाते । अथ त्रिसमय आहारका सूक्ष्मश्च पनकश्च ॥ ५९६ ॥
उपपाद एव सको तो जघन्यो न शेषसमयेषु । ततः किल तद्देहसमानमवधिक्षेत्रं जघन्यं तु ॥ ५९७ ॥ ६ क. ग. 'एवं च' । ७ गाथा ५८८ । समयाहारगस्स हुस्स पणगजीवस्स' इति नियुक्तिकारवचनमाराधितं भवति । किञ्च, इह यथा सूक्ष्मः सूक्ष्मतरोऽसौ भवति तथा कर्तव्यम्, एतच्चास्मिन् व्याख्यानेऽतिसविशेषं सिध्यतीति दर्शयति- 'उबवाए चेत्रेत्यादि' उत्पादसमय एव यतो यस्मात् तकोsसौ पनकजीवो 'जघन्यः' इति जघन्यावगाहनो भवति, न शेषेषु समयेषु, द्वितीयादिष्वीन्महत्त्वात् जघन्यावगाहनश्च निर्युक्तौ प्रोक्तः । नतोऽतिसूक्ष्मत्वसिद्धेस्तस्यानन्तरोक्तस्वरूपस्य पनकस्य देहस्तद्देहस्तत्समानमेव किलावधिविषयभूतं जघन्यं क्षेत्रं भवतीति ।
अत्र भाष्यगाथामन्तरेणापि पूर्वटीकाकार लिखितं प्रतिविधानमुच्यते, तञ्चैवम् न युक्तमिदं केषांचिद् व्याख्यानम्, त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वात्, मत्स्यसमयद्वयस्य च पनकसमयत्वायोगात् । योऽपीत्थमतिजघन्यावगाहनालाभलक्षणो गुण उद्भाव्यते, सोऽपि न युक्तः, यस्माद् नेहाऽतिमुक्ष्मणाऽतिमहता वा किञ्चित् प्रयोजनम् । किं तर्हि ?, योग्येन, योग्यच स एव तद्वसृभिर्दृष्टः यः प्रथमं जघन्यावगाहनः संस्तस्मिन्नेव भवे समयत्रयमाहारं गृह्णाति, इत्यलमतिविस्तरेण । इति गाथानवकार्थः । तदेवमवधिविषयभूतस्य जघन्यक्षेत्रस्य परिमाणमुक्तम् ।। ५९६ ।। ५९७ ।।
अथोत्कृष्टस्य तस्य तदाह
सैव्वबहुअगणिजीवा निरंतरं जत्तियं भरिज्जंसु । खेत्तं सव्वदिसागं परमोही खेत्तनिद्दिट्ठो ॥ ५९८ ॥
सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्ववहवः, न तु भूत-भाविभ्यः, नापि च शेपजीवेभ्यः कुतः ?, असंभवादेवेति अग्नयश्च ते जीवाश्वाग्निजीवाः, सर्वत्रहवञ्च तेऽग्निजीवाश्च सर्ववदभिजीवाः, निरन्तरं संततं नैरन्तर्येणेत्यर्थः, यावदिति यत्प्रमाणं क्षेत्रमाकाशं वक्ष्यमाणविशिष्टसूचीरचनया रचिताः सन्तो भृतवन्तो व्याप्तवन्तः भूतकालनिर्देशश्च ' अजितस्वामिकाल एव वक्ष्यमाणयुक्त्या प्रायः सर्ववहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्याम्' इत्यस्यार्थस्य ख्यापनार्थः । इदं चानन्तरोक्तविशेषणं क्षेत्र मेदिकमपि भवति, अत आह- ' सव्वदिसागं ति ' सर्वा दिशो यत्र तत् सर्वदिकम् । अनेन वक्ष्यमाणन्यायेन सर्वतः सूची भ्रमणप्रमितं तदाह । परमश्चासाववधिश्व परमावधिः, क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवममितमङ्गीकृत्य निर्दिष्टः प्रतिपादितो महामुनिभिः । ततश्वावधेः पर्यायेणैतावत् क्षेत्रमुत्कृष्टतो विषय इत्युक्तं भवति ।। इति नियुक्तिगाथाक्षरार्थः ॥ ५९८ ॥
भावार्थं तु सांप्रदायिकार्थप्रतिपादकभाष्यमुखेन भाष्यकार एवाह
१. क. ख. ग. 'स्य दें' । २ क. ग. 'तद्धेतुभि' । ३ सर्ववहतिजीवा निरन्तरं यावदभार्षुः । क्षेत्रं सर्वदिकं परमावधिः क्षेत्रनिर्दिष्टः ॥ ५९८ ॥
For Private and Personal Use Only