________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
134
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
कथम् , इत्याह
नम
'पण वणिज्जा भावा वण्णाण सपज्जया तओ थोवा । सेसा परपज्जाया तोऽणंतगुणा निरभिलप्पा ॥४८८ ॥ यतः प्रज्ञापनीया अभिलाप्या भावाः सामान्येन वर्णानामकारादीनां स्वपर्यायास्ततः स्तोका अनन्तभागवर्तिनः । शेषास् निरभिलाप्याः प्रज्ञापयितुमशक्याः सर्वेऽपि परपर्याया इति; अंतः स्वपर्यायेभ्योऽनन्तगुणाः । सर्वस्याऽपि हि वस्तुनो लोका-लो काकाशं विहाय स्तोकाः खपर्यायाः, परपर्यायास्त्वनन्तगुणाः । लोका-लोकाकाशस्य तु केवलस्याऽप्यनन्तगुणत्वात् शेषपदार्थान तु समुदितानामपि तदनन्तभागवर्तित्वाद् विपरीतं द्रष्टव्यम्- स्तोकाः परपर्यायाः, स्वपर्यायास्त्वनन्तगुणाः ।
अत्र विनेयानुग्रहार्थं स्थापना काचिद् निदर्श्यते, तद्यथा - सर्वाकाशमदेशराशेरन्ये सर्वेऽपि धर्मास्तिकार्य-प्रदेश- परमाणु-द्वध णुकादयः पदार्थाः सद्भावतोऽनन्ता अपि कल्पनया किल दश, सर्वाकाशप्रदेशपदार्थास्तु केवला अपि किल शतम्, प्रतिपदार्थ पञ्च पञ्च स्वर्यायाः । एवं च सति धर्मास्तिकायमदेशादीनां सर्वेषामपि पदार्थानां पञ्चाशदेव स्वपर्यायाः, ते च नभसः परपर्यायाः, स्तो काचः स्वपर्यायाणां तु पञ्च शतानि, बहवश्वामी परपर्यायेभ्यः । तस्माच्छेषपदार्थानां सर्वेषामपि नभसोऽनन्ततमभागवर्तित्वात् न भसस्तु केवलस्याऽपि तेभ्योऽनन्तगुणत्वात् खपर्यायाऽल्प- बहुत्ववैपरीत्यं द्रष्टव्यमिति । नभसोऽन्यपदार्थानां त्वनेनैव निदर्शने पर्यायाणां स्तोकत्वं, परपर्यायाणां तु बहुत्वं परिभावनीयम्, तथाहि किलैकस्मिन् धर्मास्तिकायमदेशे पश्च स्वपर्यायाः, परप तु पञ्चचत्वारिंशदधिकानि पश्च शतानि । एवमक्षर- परमाण्वादावपि वाच्यम् । इत्यलं विस्तरेणेति ॥ ४८८ ॥ अत्र परो भाष्यस्याssगमेन सह विरोधमुद्भावयति
"नणु सव्वागासपएसपज्जाया वण्णमाणमाइडं । इह सव्वदव्व-पज्जायमाणगहणं किमत्थं ति ? ॥ ४८९ ॥ 'ननु' इत्यस्यायाम्, सर्वस्य लोका- लोकवर्तिन आकाशस्य प्रदेशास्तेषां मीलिता ये सर्वेऽपि पर्यायास्ते, वर्णस्य पर्यायाणां पानं परिमाणमादिष्टम् - सर्वाकाशप्रदेशानां यावन्तः सर्वेऽपि पर्यायास्तावन्त एकस्याऽक्षरस्य पर्याया भवन्ति, इत्येतावदेवाऽऽगमे प्रोक्तमि १ प्रज्ञापनीया भावा वर्णानां स्वपर्ययास्ततः स्तोकाः । शेषाः परपर्यायास्ततोऽनन्तगुणा निरभिलाप्याः ॥ ४८४ ॥ २ घ. छ. 'यादिप्र'। ३ ननु सर्वाकाशप्रदेशपर्याया वर्णमानमादिष्टम् । इह सर्वद्रव्यपर्यायमानग्रहणं किमर्थमिति १ ॥ ४८९ ॥
त्यर्थः इह तु "तं सव्वदव्व-पज्जायरासिमाणं मुणेयव्वं' इत्यत्र किमिति सर्वद्रव्य पर्यायमानग्रहणं कृतम् १ । इदमुक्तं भवति - "सेव्वागासप एसग्गं सब्वागासपएसेहिं अनंतगुणियं पज्जत्रक्खरं निष्फज्जइ" इति नन्दिमूत्रे प्रोक्तम् । एतच्च वृत्तौ तत्र व्याख्यातम्, तद्यथा
"सर्व च तदाकाशं लोकालोकाकाशमित्यर्थः, तस्य च प्रदेशा निर्विभागा भागास्तेषामत्रं परिमाणं सर्वाकाशप्रदेशानं, सर्वाकाशप्रदेशः, किं ? अनन्तगुणितमनन्तशो गुणितमनन्तगुणितम्, एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां सद्भावात्, पर्यार्याक्षरं पर्यायपरिमाणाक्षरं निष्पद्यते' इति ।
तदेवमागमे केवलसर्वाकाशप्रदेशपर्यायराशिप्रमाणमक्षर पर्यायमानमुक्तम्, अत्र तु धर्मा-धर्माऽऽकाश-पुद्गल-जीवास्तिकाय- काल लक्षणसर्वद्रव्य - पर्याय राशिप्रमाणं तदुच्यते इति कथं न विरोधः १ इति ।। ४८९ ॥
अत्रोत्तरमाह
* थोब त्ति न निद्दिट्ठा इहरा धम्मत्थियाइपज्जाया । के स- परपज्जयाणं हवंतु, किं होतु वाऽभावो १ ॥४९०|| स्तोका आकाशपर्यायेभ्योऽनन्तभागवर्तिन इति कृत्वा नन्दिसूत्रे धर्मास्तिकायादीनां पञ्चद्रव्याणां पर्याया न निर्दिष्टा नाभि हिताः साक्षात्, किन्तु य एव तेभ्योऽतिबहवोऽनन्तगुणास्त एव सर्वाकाशपर्यायाः साक्षादुक्ताः, अर्थतस्तु धर्मास्तिकायादिपर्याया अ नन्दिसूत्रे मोक्ता द्रष्टव्याः, इतरथा - यद्येतद् नाभ्युपगम्यते, तदा ते धर्मास्तिकायादिपर्याया अक्षरस्य स्व-परपर्यायाणां मध्यात् ये भवन्तु - किं स्वपर्याया भवन्तु १, परपर्याया वा १, किंवाऽभावः खरविषाणरूपो भवतु १, इति त्रयी गतिः । त्रिभुवने हि ये पर्यायास्तै सर्वैरप्यक्षरादेर्वस्तुनः स्वपर्यायैर्वा भक्तिव्यम्, परपर्यायैर्वा, अन्यथाऽभावप्रसङ्गात् : तथाहि ये केचन कचित् पर्यायाः सन्ति तेऽक्ष रादिवस्तुनः स्व-परपर्यायान्यतररूपा भवन्त्येव यथा रूपादयः, ये त्वक्षरादेः स्वपर्यायाः परपर्याया वा न भवन्ति, ते न सन्त्येव यथा खरविषाणतैक्ष्ण्यादयः । तस्माद् धर्मास्तिकायादिपर्यायाः सूत्रे स्तोकत्वेनाऽनुक्ता अपि ""जे एवं जाणइ से सव्वं जाणइ" इत्यादि सूत्रप्रामाण्यादर्थतोऽक्षरस्य परपर्यायत्वेनोक्ता द्रष्टव्या इति ॥ ४९० ॥
अथान्यत् प्रेरयति
१ गाथा ४७७ । २ सर्वाकाशप्रदेशानं सर्वाकाशप्रदेशैरनन्तगुणितं पर्यवाक्षरं निष्पद्यते । +च सर्वाकाश
३ स्तोका इति न निर्दिष्टा इतरथा धर्मास्तिकायादिपर्यायाः । के स्व-परपर्ययाणां भवन्तु, किं भवतु वाऽभावः ? ॥ ४९० ॥ ४. घ. छ. 'वंति किं' । ५ य एकं जानाति स सबै जानाति ।
For Private and Personal Use Only