________________
S M
ar Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
105 विशेषा.
अणुसेढीगमणाओ पडिघायाभावओऽनिमित्ताओ । समयंतराणवत्थाणओ य मुक्काई न सुणेइ ॥ ३५४ ॥
तेषामनुश्रेणिगमनात् । अनुश्रेणिगमने प्रवृत्तानामपि प्रतिघाताद विश्रेणिगमनं भविष्यतीति चेत् , इत्याह- प्रतिघातस्य स्खलनस्याऽभावात् । एतदपि कुतः, इत्याह- अनिमित्तात् कुख्यादेस्तनिमित्तस्याऽसंभवाद, बादरद्रव्याणामेव तत्संभवात, ऐपो च सूक्ष्मत्वादिति भावः। न च वक्तव्यं-द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षु गमनात् तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति । कुतः, इत्याह-'समयंतरेत्यादि' निसर्गसमयानन्तरं द्वितीयादौ समयान्तरे श्रवणसंस्कारजनकशक्तिसंपन्नतया तेषां भाषकाद्युत्सृष्टद्रव्याणामनवस्थानात् , इति मागुक्तमेव । इति मुक्तानि भाषकाझुत्सृष्टानि द्रव्याणि विदिग्व्यवस्थितो न भृणोति ॥ इति गाथात्रयार्थः ॥ ३५४ ।। ___ आह- केन पुनर्योगेनाऽमीषां वाग्द्रव्याणामादानम्, उत्सर्गो वा कथम् !, इत्याह
'गिण्हइ य काइएणं निसिरइ तह वाइएण जोएणं । एर्गतरं च गिण्हइ निसिरइ एगंतरं चेव ॥ ३५५ ॥
कायेन निर्वृत्तः कायिका, योजनं योगो व्यापारः, कर्म, क्रिया, इत्यनान्तरम् । तत्र सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि गृहाति । चशब्दस्त्वेवकारार्थः तस्य च व्यवहितसंबन्धात् कायिकेनैवेति द्रष्टव्यम् । निसृजति, उत्सृजति, मुञ्चति, इति पर्यायाः । तथेति ग्रहणानन्तरमित्यर्थः । उक्तिर्वाक् तया निर्वृत्तो वाचिकस्तेन वाचिकेन योगेन निसृजति । किमनुसमयमेव ग्रहाति, निसृजति चा उताऽन्यथा', इत्याशड्क्याह-एकान्तरमेव गृहाति, निसृजत्येकान्तरं चैव । अयमत्र भावार्थ:- पतिसमयं गृहाति, मुञ्चति च । कथम् , यथा ग्रामादन्यो ग्रामोग्रामान्तरं, पुरुषाद्वाऽन्यःपुरुषो निरन्तरोऽपि सन् पुरुषान्तरम्, एवमेकैकस्मात समयादेकैक एवैकान्तरोऽनन्तरसमय एवेत्यर्थः ॥ इति नियुक्तिगाथासंक्षेपार्थः, विस्तरार्थस्तु भाष्यादवसेयः ॥ ३५५ ॥
तचेदम्*गिव्हिज्ज काइएणं किह निसिरइ वाइएण जोएणं १ । को वाऽयं जोगो किं वाया कायसंरंभो ? ॥ ३५६ ॥ , वाया न जीवजोगो पोग्गलपरिणामओ रसाइ व्व । न य ताए निसिरिज्जइ स च्चिय निसिरिजए जम्हा ॥ ३५७ ॥
, अनुश्रेणिगमनात् प्रतिघाताभावतोऽनिमित्तात् । समयान्तराऽनवस्थानतश्च मुक्कानि न गणोति ॥ ३५४ ॥ १ क.ग. 'तेषा' ।
३ गृहाति च कायिकेन निसृजति तया वाचिकेन योगेन । एकान्तरं च गृह्णाति निसृजत्येकान्तरमेव ॥ ३५५॥ . . गृहीयात् कायिकेन कथं निसजाति वाचिकेन योगेन!। को वाऽयं योगः किं वाक् कायसंरम्भः ॥५६॥ ५५. 'गेहेन'।
वाग न जीवयोगः पुद्गलपरिनामतो रसादिरिख । न च तया निसृज्यते सैव निखज्यते यमात् ॥ ३५७ ॥ क.ग. 'एण'10.ग. 'सिरब'। अह सो तणुसरंभो निसिरइ तो काइएण वत्तव्वं । तणुजोगविसेस चिय मण-वइजोग त्ति जमदोसो ॥ ३५८ ॥
अत्र परः प्राह- ननु 'गिहइ य काइएणं' इति यदुक्तं तद् मन्यामहे, यतो गृह्णीयात् कायिकेन योगेन वाग्द्रव्याणि भाषका, नेदमयुक्तम् , कायव्यापारमन्तरेण तद्ग्रहणाऽयोगात् । यत् पुनरुक्तम्-"निसिरइ तह वाइएण जोएणं' इति, तदेतद् नावगच्छामा, यतः कथं नाम निसृजति वाचिकेन योगेन', गृह्यमाणाया वाचो जीवव्यापाररूपयोगाभावाद् नैतद् घटत इत्यर्थः । इति संक्षेपेणोक्त्वा विस्तराभिधित्सया पाह-'को वाऽयमित्यादि' वेत्यथवा, किमनेन संक्षेपेण', विस्तरेणाऽपि पृच्छामः- कोऽयं नाम वाग्योगः, येन निसृजतीत्युक्तम् । 'किं वाय त्ति' वागेव निसृज्यमानभाषापुद्गलसमूहरूपो वाग्योगः, किंवा कायसंरम्भा कायव्यापारस्तनिसर्गहेतुर्वाग्योगः १, इति विकल्पद्वयम् । तत्र प्रथमविकल्पपक्षं निराकुर्ववाह- 'वाया न जीवजोगो इत्यादि' योगोऽत्र शरीरजीवव्यापारः प्रस्तुतः, स च वाग् न भवति, पुद्गलपरिणामत्वात् तस्याः, रस-गन्धादिवत् । यस्तु जीवव्यापाररूपो योगःस पुद्गलपरिणामोऽपि न भवति, यथा जीवाधिष्ठितकायन्यापारः । अपि च, 'न य ताए तिन च तया बाचा किश्चिद् निसृज्यते, तस्या एव निसृज्यमानत्वात् । न च कर्मैव करणं भवति । अतो वागेव वाग्योग इति प्रथमविकल्पो न घटते । अथ द्वितीयमधिकृत्याह- 'अहेत्यादि' अथाऽसौ वाग्योगस्तनुसंरम्भः कायव्यापारः, ततः 'कायिकेन निसृजति' इत्येवमेव वक्तव्यं स्यात्, अतः किमुक्तम्- 'निसिरह तह वाइएण जोएण' इति । अत्रोत्तरमाह- 'तणु इत्यादि' ननु द्वितीयविकल्प एवाऽत्राऽङ्गीक्रियते, केवलमविशिष्टः काययोगो वाग्योगतया नाऽस्माभिरिष्यते, किन्तु तनुयोगविशेषावेव कायव्यापारविशेषावेव मनो-वाग्योगाविष्यते यद् यस्मात ततोऽयमदोषः । न हि कायिको योगः कस्यांचिदप्यवस्थायां शरीरिणा जन्तूनां निवर्तते, अशरीरिणां सिद्धानामेव तनिवृत्तेरिति, अतो वागनिसर्गादिकालेऽपि सोऽस्त्येवेति भावः ॥ ३५६ ।। ३५७ ॥ ३५८ ॥ तहि समुच्छिद्यतां मनो-चाग्योगकथा । न, इत्याह
किं पुण तणुसरंभेण जेण मुंचइ स वाइओ जोगो। मण्णइ यस माणसिओ तणुजोगो चेव य विभत्तो॥३५९॥ "किं पुण' इति 'तथापि' इत्यस्याऽर्थे । ततश्चेदमुक्तं भवति- यद्यपि काययोगः सर्वत्राऽनुगतोऽस्ति, तथापि येन मनो वाग्द्रव्या णामुपादानं करोति स कायिको योगः, येन तु संरम्भेण तान्येव मुञ्चति स वाचिकः, येन तु मनोद्रव्याणि चिन्तायां व्यापारयति
अथ स तनुसंरम्भो निमृजति ततः कायिकेन वक्तव्यम् । तनुयोगविशेष एव मनो-वाग्योगाविति यददोषः॥३५८॥ ... २ गाथा ३५५ । ३ किं पुनस्सनुसंरम्भेण पेन मुञ्चति स वाचिको योगः । मन्यते च स मानसिकस्तनुयोग एष च विभक्तः॥ ५९॥
For Private and Personal Use Only