________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
98
विशेषा० प्रहादिभेदानरूपणात् पूर्वमेव निर्दिष्ट नन्यध्ययनसूत्रकारेण । किं निर्दिष्टम् १, इत्याह- 'अविसेसिया मइच्चिय ति सूचकत्वाद सूत्रस्य, अनेनाऽऽलापका सर्वोऽपि सूचितो द्रष्टव्यः, तपथा-" अविसेसिंआ मई मइनाणं च, मइअनाणं च, विसेसिंआ मई- सम्मदिद्विस्स मई मइनाणं, मिच्छद्दिहिस्स मई मइअभाणं " इति । ततो यस्मादागम एवमुक्तम् , तस्मात् सम्यग्दृष्टेः सर्वापि मतिर्ज्ञानं, मिथ्याः दृष्टस्त्वज्ञानम् ।। इति गाथार्थः ॥ ३२९ ॥
अथ 'सदसद-' इत्यादिना प्रागुक्तामपि सम्यग्दृष्टीनत्वे, मिथ्यादृष्टेरज्ञानत्वे पुनरपि युक्तिमाह*विवरीअवत्थुगहणे जं सो साहणविवजयं कुणइ । तो तस्स अन्नाणफलं सम्महिट्ठिस्स नाणफलं ॥३३०॥
इह मिथ्यादृष्टिस्तावद् मिथ्यात्वोदयविपर्यस्तत्वात् त्रिभुवनगुरुमणीतवस्तु विपरीतं सर्वमेव गृह्णाति । ततोऽसौ विपरीतवस्तुप्रइणे विपरीतवस्तुग्रहणशीलतयेत्यर्थः, यस्मात् साधनविपर्ययं करोति-साध्यन्ते मोक्षादयोऽनेनेति साधनं ज्ञान-दर्शन-चारित्रादि तस्य विपर्ययं व्यत्ययं करोति, अज्ञान-मिथ्यात्वा-विरत्यादीन्यपि मोक्षादिसाधकत्वेनेच्छतीत्यर्थः । ततस्तस्य ज्ञानमज्ञानफलमेव, अज्ञानस्यैव फलं नरकमाप्त्यादिकं यस्मात् तदज्ञानफलम् , अज्ञानबद् वा फलति नरकादिदुःखं प्रसूत इत्यज्ञानफलम् । तत्फलत्वाचाज्ञानमेवेति भावः । सम्यग्दृष्टस्तु ज्ञानं ज्ञानफलमेव, ज्ञानस्यैव फलं यस्मात् , ज्ञानवद् वा फलति स्वर्गादिसुखमिति ज्ञानफलं, तत्फलत्वाच शानमेवेति हृदयम् । इदमुक्तं भवति-विपरीतवस्तुग्राही मिथ्यादृष्टिमोक्षादेः साधनं सम्यग्ज्ञान-क्रियारूपं विपरीतं मन्यते- "वेदविहिता हिंसा न दोषाय"
“पट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनाद न्यूनानि पशुभिस्त्रिमिः"॥१॥ ... " हत्वा भूतसहस्राणि कृत्वा पापशतानि च । स्नात्वा गङ्गाजले पूते यान्ति जीवाः शिवालयम् " ॥१॥
इत्यादिभूतघातनिबन्धनत्वेन संसारहेतोमिथ्याज्ञानस्य मोक्षादिसाधकत्वेनाऽभ्युपगमात्, जलस्नान-पशुवध-पुत्रसन्ततिनिबन्धनमैथुनादिक्रियायां च तत्साधकत्वेन प्रवर्तनात् । अतस्तस्य ज्ञानमयज्ञानफलत्वेनाऽज्ञानमेव । सम्यग्दृष्टस्तु सम्यग्ज्ञान-क्रियासंयोगेन मोक्षादौ प्रवृत्तेनिफलत्वेन ज्ञानमेव ।। इति गाथार्थः॥ ३३०॥ , अविशेषिता मतिमंतिज्ञानं च, मस्यज्ञानं च; विशेषिता मति:- सम्यग्दृष्टर्मतिर्मतिज्ञानम् , मिथ्यादृष्टर्मतिर्मस्यज्ञानम् । २ घ. छ.ज. 'सिया म।' १ गाथा ३१९ । । विपरीतवस्तुग्रहणे यत् स साधनविपर्ययं करोति । ततस्तस्याज्ञानफलं सम्यग्दष्टेनफलम् ॥ ५० ॥ ५ घ. ज. 'रीयव' । ६ क.ग. 'णाण।
अथ पुनरपि मिथ्यादृष्टेः सम्यग्दृष्टितुल्यतामाशय निराकुर्वाहजैइ सो वि तस्स धम्मो किं विवरीयत्तणं ति, तं न भवे । धम्मो वि जओ सव्वो न साहणं किंतु जो जोग्गो॥३३१
___ यो मिथ्याज्ञान-विपरीतक्रियालक्षणो धर्मो मिथ्यादृष्टिना मोक्षसाधकत्वेनाऽभ्युपगतः, यदि सोऽपि तस्य सम्यग्ज्ञानादिरूपस्य सम्यग्दृष्ट्यभ्युपगतस्य मोक्षसाधनस्य धर्मः, तर्हि मिथ्यादृष्टेः किं विपरीतत्वम् ? न किश्चिदित्यर्थः। अयमत्र भावार्थ:-'ईय सब मयं सव्वं समद्दिठिस्स जंवत्धु' इति वचनात् 'सर्वमयं सर्वमेव वस्तु' इति भवतां सिद्धान्तः। ततश्च सम्यग्ज्ञान-दर्शन-चारित्रसमुदायरूपस्य साधनस्य यथा सम्यग्ज्ञानादिको धर्मः, तथा मिथ्याज्ञानादिकोऽपि, अन्यथा सर्वस्य सर्वमयत्वत्यागप्रसङ्गात् । अतः सम्यग्दृष्टिना मोक्षसंसिद्धये यस्य साधनस्य धर्मोऽङ्गीकृतः, मिथ्यादृष्टिनाऽपि तत्सिद्धये तस्यैव धर्मः स्वीकृता, धर्मग्रहणद्वारेण च कथश्चित् तस्य धर्मिणो ग्रहणम् । अतः किं नाम मिथ्यादृष्टेविपरीतत्वम् १ । इति परेणोक्त आचार्यः माह- 'तं न भवे त्ति' तदेतत् त्वदुक्तं न भवेद न युज्यते । कुतः, इत्याह- 'धम्मो विजओ इत्यादि' इदमुक्तं भवति- अनन्तधर्माध्यासितस्यापि वस्तुनो न सर्वेऽपि धर्मा एक पर्थ साधयन्ति, किन्तु योग्यतानुरूपेण कोऽपि कश्चिदेवेति । यथा हि कलश-मल्लक-कपाल-भुम्भलकादीनां साधारणेऽपि मुद्धर्मत्वे ने कलशव झुम्भलकादयोऽपि माल-जलधारणादिकार्येषु व्याप्रियन्ते, नापि सुवर्णधर्मत्वे समानेऽपि कुण्डलवद् नूपुरमपि कर्णालकर णाय नियुज्यते, न चापि शालि-दालि-घृतादिधर्मत्वे तुल्येऽपि रसवद् गन्धादयोऽपि तृप्ति-देहपुष्ख्यादीनि साधयन्ति । एवं यद्यपि मोक्षादिसाधनस्य मिथ्याज्ञानादिकोऽपि व्यावृत्तिरूपतया धर्मः, तथापि नासौ मोक्षं साधयति, किन्तु तद्विपक्षभूतं संसारादिकमेव मोक्षादिकं तु यत्साधनयोग्यः सम्यग्ज्ञानादिको धर्मः स एव साधयति । ततः सम्यग्दृष्टिगृहीतेऽप्यनन्तधर्माध्यासिते मोक्षादि साधने वस्तुनि योग्यमेव सम्यग्ज्ञानादिकं धर्म तत्साधनाय व्यापारयति, नाऽयोग्यं मिथ्याज्ञानादिकम् । मिथ्यादृष्टिस्तु मिथ्यात्वोदयः । तिमिरतिरस्कृतभावहाष्टित्वेन तत्र तस्याऽयोग्यतामपश्यस्तमेव व्यापारयतीति । अतः साधनविपर्ययं करोति, इत्यवानमेव तस्य । इति गाथार्थः ॥ ३३१ ।। एतदेव भावयन्नाह- .
जोग्गा-जोग्गविसेसं अमुणतो सो विवजयं कुणइ । सम्मबिट्ठी उण कुणइ तस्स स ठाणविणिओगं ॥ ३३२ यदि सोऽपि तस्य धर्मः किं विपरीतस्वामिति, तद् न भवेत् । धर्मोऽपि यत्तः सर्वो न साधनं किन्नु यो योग्यः ॥ ३३॥ २'गाथा ३२० । प.ज. 'भुम्भुल' । ४ क.ग. 'धनव'।५ योग्यायोग्यविशेषमजानन् स (मिथ्यारष्टिः) विपर्ययं करोति । सम्यग्दृष्टिः पुनः करोति तस्य सस्थानविनियोगम् ॥३॥
For Private and Personal Use Only