________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८८) रज्वां सर्पभ्रांतिरुत्पद्यते तद्वदनादिमिथ्याप्रपंचमपि दृष्ट्वा ब्रह्मणि जगदध्यासो जायते सत्यवस्तुनो ज्ञानजन्यसंस्कार एवाध्यासकारणमिति नियमाभावात् ।
किं च यदुक्तं प्रमातादोषो भयलोभादिकं प्र. मेयदोषः साहशत्वं च नास्तीति तन्न संभवति यतः तेषां घटे ब्रह्मणि चास्तिभातिप्रियाणां सादृश्यदर्शनात् तेषां विद्यमानत्वात्तेषामभावकथनमनुचितम्॥
५॥ ननु तेषामभावकथनं कथमनुचितम् । यतः कारणं तदेव भवति यस्य स्थितिः कार्यात्पूर्वमव्यवधानेन भवेत् । एतेषां त्रिदोषाणां तु अध्यासरूपत्वादध्यासात्यूर्वमुत्पत्तेरेवासंभवात् कथं कारणत्वं संभवति अव्यवधानेन पूर्वकालेऽनवस्थानादिति चेत्।
६॥ सत्यं तथापि त्रिदोषाणां भ्रमं प्रति यदि कारणता स्यात्तदा त्रयाणां स्थितावाकांक्षी भवेन्न तु प्रमाताप्रमाणप्रमेयाणां दोषा अध्यासं प्रति हेतयो भवंति, दोषत्रयं विनाप्याकाशे नीलतादेर्दर्शनात् । तस्मात्तेषां त्रिदोषाणामभावो भवतु, भ्रमं प्रति कारणत्वस्यासंभवात् ।
For Private and Personal Use Only