________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहिंसा स त्यमस्तेयं ब्रह्मचर्यमपरिग्रह इति पंच यमाः संति ॥१॥ शौचम्संतोषःतपः स्वाध्याय ईश्वर. प्रणिधानमिति पंच नियमाः॥२॥आसनानि सिद्धपद्मपश्चिमतानकपालि मयूरादीनि संति ॥ ३ ॥ रेचकपूरककुंभकाख्याः प्राणायामा भवंति ॥४॥
२॥प्रत्याहारश्च 'यतो यतो निश्चरति मनश्चंचलम स्थिरम्। ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्'५॥ ॥ धारणा तु निर्विकल्पात्मनि वृत्ते निरंतर स्थितिकरणं यदस्तिदाध्यानं च निर्विकल्पात्मनि वृत्ते निरंतरं प्रवाहो योस्तीति।७। समाधिश्च व्युत्थानसंस्कारतिरस्कारे सति निरोधसंस्कारपूर्वकमंतःकरणवृत्ते निरंतरं निर्विकल्पात्मनि एकाग्रतारूपपरिणामः ॥८॥
३ ॥ सा समाधिरपि सविकल्पनिर्विकल्पभेदेन द्विविधा भवति । तयोर्याः सविकल्पसमाधिरस्ति साऽपि शब्दानुविद्धशब्दाननुविद्धभेदेन हिविधा भवति, तयोरपि भेदं श्रुणुत । अहं ब्रह्माऽ स्मीति शब्दोच्चारणपूर्वका या समाधिः सा शब्दानुविद्धरूपा सविकल्प समाधिर्भवतीति ॥ अहं ब्रह्माऽस्मीति शब्दोच्चारणं विना या समाधिः सा शब्दाननुविद्धरूपा । सविकल्पसमाधी त्रिपुटेर्भानं ब्रह्मरूपेण भवति। यथा भूषणानि कनकमयानि संति तद्वत्कार्यप्रपंचोऽपि ब्रह्मरूप एव भासते॥
For Private and Personal Use Only