________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२६) ९॥ यच्चोक्तं ज्ञानिनां संचितकर्मनाशवन्मुमुक्षु. रपि कर्मफलं न विंदते इति तदपि न संभवति, यतो ज्ञानिनां जीवब्रह्मणोरैक्यत्वज्ञानेन कर्मोपादानमज्ञानं विनष्टं भवति । ततः कर्मणामुपादानकारणाऽज्ञाननाशे सत्येव कार्यभृतं कर्म विनश्यति। मुमुक्षुस्तु ज्ञानाऽभावादज्ञानसद्भावे सति कार्यभृतकर्मणः सद्भावात् ज्ञानीव कर्मभिर्न विमुच्यते । ' नाभुक्तं क्षीयत कर्म कल्पकोटिशतैरपि इति स्मरणाच कर्मफलभोगायैव जन्म प्राप्नोति, विना ज्ञानं च मोक्षं न प्राप्नोति ॥ . १० यदुक्तं साधारणप्रायश्चित्तन गंगास्नानेन परमेश्वरनामोच्चारणेन च सर्वपापानां विनाशं कृत्वा मुमुक्षुर्विमच्यते इति, तदपि चित्तशुद्धिद्वारा ज्ञानप्राप्तौ सत्यामेव विमुक्तो भवितव्यः। तव मते तु ज्ञानानंगीकारादज्ञाने विद्यमाने सति तत्कार्यकर्मणां सद्भावात्कथं मुमुक्षुर्मुक्तिं प्राप्नुयात्?जन्मैव विंदतेइति ।यत्तूक्तं नित्यनैमित्तिककर्मसु यदुःखं भवति तेन संचितपापानि विनश्यति इति । तदपि तक क. पोलकल्पितत्वात् वेदप्रमाणाऽभावाच्चानादरणीयमिति। बहुजन्मसु कृतपापानां फलमिदमेव, यदस्मिन् जन्मनि नित्यनैमित्तिककर्मसु क्लेशमात्रमिति,
For Private and Personal Use Only