________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( २४ )
Acharya Shri Kailassagarsuri Gyanmandir
७ ॥ किंच यदुक्तं तयोरकरणे पापं भवतीति तदप्युन्मत्तवाक्यवच्याज्यं भगवद्वचनविरोधात् । भगवता सर्वज्ञेनोक्तं 'नासतो विद्यते भाव इति । तस्मादभावरूपाकरणात् भावरूपस्य पापस्योत्पत्तेर स्वीका रात् । किं च यदुक्तं वासनाऽभावादेव संचितपुण्यकर्मणां फलं न भवति इत्येतद्वाक्यं कथं ग्राह्यं भवति । यतः पापकर्मणां फलं यद्दुःखं भवति तद्दुःखरूपफलं कस्यापि नो भवितव्यं पापकर्मणां फलं यद्दुःखं भवति तद्दुःखं भोक्तुं सर्वेषां कामनाया अभावात् ॥
For Private and Personal Use Only
"
८ ॥ यथा कामनाऽभावा दुःखफलस्याऽभावो न भवति तथा कामनाऽभावमात्रेणापि पुण्यकर्मणां फलं यत्सुखं तदपि भोगमंतरेण न विनश्यति, ज्ञानाभावात् । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभमिति प्रमाणाच्चेच्छ्राऽभावात्पुण्यं न विनश्यति