SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४२) द्वेषं कृत्वा पापपुण्येन बंधनं प्राप्नोति तस्मादेवाज्ञानिनो ज्ञानिनश्च भेदः ॥ ८॥शंका-त्रिशरीरेभ्यो भिन्नमात्मानं ज्ञात्वा त्रिशरीरेषुरागाभावादेव ज्ञानी तेषां रक्षार्थमनपानादौ कथं प्रवर्तते यैः सह संबंधो नास्ति तेषां रक्षणार्थे प्रवत्यदर्शनादिति लोके प्रसिद्ध एव ॥ समाधानं ॥ यथा रागाभावे सति लघुबालस्योन्मत्तस्य निद्रा गतस्य मनोराज्ये प्रवृत्तस्य बलाद्राज्ञा निगृहीतस्य च यथाऽनपानादौ प्रवृत्तिलोकप्रसिद्धा सर्वैर्दश्यते तद्वदेव प्रारब्धकर्मणा राज्ञा निगृहीतो ब्रह्मानंदेनोन्मत्तोऽपिसनन्नपानादौ सुखेन प्रवर्तते बाधकाभावात्तत एव जीवन्मुक्तो भवति ॥ ___९ ॥ शंका-यो ज्ञानी भवति सुखादिसाधनेषु प्रवृतिं कृत्वापि तेषु रागादिकं न करोति तत्र किं कारणं भवति ॥ समाधानं-" पदार्थेषु विशेषज्ञानमेव रागादीनां कारणं भवति ज्ञानिनश्च सर्वं खल्विदं ब्रह्मेति " श्रुत्या सर्वत्र समबुद्धया " ब्रह्मार्पणं ब्रह्महविरिति” स्मृत्या चेति दृढज्ञानाद्विशेषज्ञानाभावाच विषयेषुरागादिर्न भवति यथा ब्रह्मात्मनि रागो न भवति निर्गुणत्वात्स्वस्वरूपत्वाञ्चद्वेषोऽपि न भवति तथा सर्वत्र तस्य ज्ञानिनो रागद्वेषौ न भवतः तदेवं ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy