________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २४ ) १७॥ यक्ष उवाच-हे सौम्य प्रमाणेन प्रमेयस्य सिद्धिर्भवति प्रमेयेन प्रमाणस्य सिर्वाि स्यादित्यत्र तव कीदृक् निश्चयमस्तीति तनिश्चित्य वक्तव्यं ॥ कुमार उवाच ॥ हे महात्मन् ॥मानेन मेयावगतिश्च युक्ता धर्मस्य जाड्याद्विधिनिष्ठकांडे ॥मेयेन मानावगतिस्तु युक्ता वेदांतवाक्येष्वजडं हि मेयमिति ॥ मे निश्चयं विद्धि ॥
१८॥ यक्ष उवाच भो विशालबुद्धे कुमार समीपाऽपरोक्षघटस्थलेबुद्धिमता पुरुषेण घटोऽयमित्युपदेशं विनापि ज्ञातुं शक्यते ब्रह्म तु घटादपि सा. क्षादपरोक्षं भवति स्वस्वरूपत्वात् “ यत्साक्षादपरोक्षाद्ब्रह्मेति" श्रुतेश्च घटादपि सुखेन ज्ञातंभवितव्यं न चैवमस्ति प्रत्युत “ बहूनां जन्मनामंते ज्ञानवान्मां प्रपद्यते" गीतायामित्युक्तं तत्र किं कारणमस्ति॥ कुमार उवाच-भो महात्मन् सम्यक्वया पृष्टमुत्तरं शृणु, श्लोकः-॥ अहमालंबनसिद्धं, कस्य परोक्षं भवेदिद ब्रह्म । तदपि विचारविहीनैरपरोक्षयितुं न शक्यतेमुग्धैः ।। तत्र दृष्टांतः भास्वंतं भानुमंधवदितिज्ञेयः॥ इतिविंशतिकमलं-समाप्तम् हरिः ॐ तत् सत् ॥ १॥ अथ एकविंश कमले श्रीकृष्णचंद्रकृत्कर्मसु
प्रश्नोत्तराणां कथनं ॥
For Private and Personal Use Only