________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २२ )
१४ ॥ प्रश्नः - योऽज्ञानिभिर्न ज्ञायते यश्वादेहोपि सदेहः स कः यस्य क्रियाविफला सती जन्मने न भवति सः कीदृशः ॥ उत्तरं जीवन्मुक्तोऽज्ञैर्ज्ञातुं न शक्यते स एव निर्वाणः सन्सशरीरी भूत्वा दृष्टिवियो भवति तस्य कर्म फलायन भवत्यत एव जन्म दानेऽसमर्थ सदग्धबीजवत्पुनर्भवफलायन भवति ॥
१५ ॥ प्रश्नः - किमस्ति किं च नास्ति त्रिका - लेऽनुत्पन्नं सत्किं दृष्टिगोचरं भवति ॥ उत्तरं चिदस्ति जगन्नास्ति व्यवहारविषयं शब्दमात्रं त्रिष्वपि काले.
ष्वनुत्पन्नं सत्दृष्टिगोचरं भवति तत्र श्लोक:॥ अहोतुचित्रं यत्सत्यं ब्रह्मतद्विस्मृतं नृणाम् । यदसत्यमविद्याख्यं तत्पुरः परिवल्गति ॥
१६ ॥ यक्ष उवाच - भो विद्वान् त्वत्तः सर्वे संशया विनष्टाः हे वदतांवर राजकुमार अस्मिन्संसाasस्य जीवस्य मोक्षे ये विघ्नरूपा विषयाः संति ते कियत्कालपर्यंता नो निवर्तन्ते अस्योत्तरं मह्यं ब्रूहि ॥ राजपुत्र उवाच - " विषयास्तावदेवैते प्रगल्भंत बलादयः । प्रत्यगात्मरतिर्यावद्दृढा नोदेति देहिनः " ॥१॥ आत्मप्रेमिण समुत्पन्ने विषयप्रेम नश्यति । योषित्प्रेणि समुत्पन्ने मातृप्रेमेव कामिनाम् ॥२॥
For Private and Personal Use Only