________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( २ )
Acharya Shri Kailassagarsuri Gyanmandir
१ अथ एकोनविंशकमले तापस्यष्टावक्रयोः संवादः
कदाचि जनकसभायाम ष्टावक्रो वरुणपुत्रं शास्त्रार्थे विजित्य सर्वे ब्राह्मणैः सह पितरं मोचयित्वा गर्व प्राप्तोऽभूत् तस्यगर्वनिवृत्यर्थं तत्रैव काचिदीश्वरप्रेरिता तापस्यागता अष्टावक्रं प्रत्युवाच ॥
भोऽष्टावक्र मुमुक्षवो यं ज्ञात्वा जीवन्मुक्ताः संतो विददमोक्षं प्राप्य तद्रूपा भवति न पुनरावर्तन्ते यं च ज्ञात्वा संसारे पुनर्ज्ञातव्यं न भवति न च प्राप्तव्यमव शिष्यते यच्चावेद्यमप्यस्ति यदि त्वं तत्पदं विजानासि तर्हि तस्य स्वरूपं मह्यं वक्तव्यं ॥
२ ॥ अष्टावक्र मुनिरुवाच भो देवि जानाम्यदं तत्पदं तुभ्यं च कथयिष्यामि लोके वेदे च ममाऽज्ञातं किंचिदपि नास्त्येव ॥
For Private and Personal Use Only