________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेषां जात्या विनाप्यग्रे ज्ञान प्रतिपादिता ऋषयो बह वस्संति तस्मान्न जातिाह्मणइति तर्हि ज्ञानं ब्राह्मण इति चेत्तन्न क्षत्रियादयोऽपि परमार्थदर्शिनोऽभिज्ञावहवः संति तस्मान्न ज्ञानं ब्राह्मण इति तर्हि कर्म ब्रा. ह्मण इति चेत्तन्न सर्वेषाप्राणीनां प्रारब्ध संचितागामी कर्मसाधर्म्यदर्शनात्कर्माभिप्रेरिता संतोजनाः क्रियाः कुर्वति तस्मान्न कर्म ब्राह्मण इति तर्हि धार्मिको ब्राह्मण इति चेत्तन्न क्षत्रियादयोहिरण्यदातारो बहवस्संति तस्मान्न धार्मिको ब्राह्मण इति तर्हि कोवा ब्राह्मणो नाम इति प्रश्नः यः कश्चिदात्मानम द्वितीयं जाति गुणक्रियाहीनं षडूमि षड्भावेत्यादि सर्वदोषरहितं सत्यज्ञानानंतस्वरूपं निर्विकल्पमशेषकल्पनाधारम शेषनूतांतर्यामित्वेन वर्तमानं ॥ अंतर्बहिश्चाकाशवदनुस्यूतमखंडानंदस्वभावमप्रमेयमनुभवैकवेद्यमपरोक्षतयाभासमानं ॥ करतलामलकवत्साक्षादपरो. क्षीकृत्य कृतार्थतया॥ काम रागादि दोष रहितः शमदमादिसंपन्नो भयमात्सर्यतृष्णाऽऽशामोहादि रहितो दंभाऽहंकारादिभिरसंस्पृष्टचता वर्तते "एव मुक्तलक्षणो यः स एव ब्राह्मण इति श्रुति रभिप्रायः अन्यथादि ब्राह्मणत्व सिद्धिर्नास्ति तस्मात्सच्चिदानंदाऽऽ. स्मानं भावयेत् ॥हरिःमिति वज्रसूच्युपनिषत्संपूर्णम्
For Private and Personal Use Only