________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा शुक्त प्रासिद्धत्वधर्मस्यापि संबंधो रजतेऽध्यास रूपेण जायते तस्मादेवानुभवो भवति प्राक्जातं रजतं पश्यामीति न चेदानीं जातं रजतं पश्यामीदृशं ज्ञानं भवति. ततएवरजतग्रहणाय प्रवर्तते तस्मा. द्रजते प्राक सिद्धत्वप्रतीतिरवे रजतोत्पत्तिप्रतीतेः प्रतिबंधकाऽस्तितत एव रजतोत्पत्तेः प्रतीतिर्न भवति प्राक्रसिद्धत्व वर्तमानोत्पत्तिमत्वयोरुषासायंकालयोरिव परस्पर विरोधात् ॥ ....८॥ यच्चोक्तं रजतनाशोपि न ज्ञायते तस्यापि समाधानमिदं शृणु विनाशो विविधो भवति ध्वंसरूपो बाधरूपश्च तत्राद्यो दंडेन घटस्य प्रसिद्धोस्ति द्वितीयस्तुअधिष्ठानज्ञानात् कार्यस्याज्ञानेन सह विनाशरूप एवोक्त अत्र प्रसंगेपि शुक्तिज्ञानाद्रजतस्याज्ञानेन सह बाधरूपो द्वितीयोऽत्र त्रिकालाभावज्ञानरूपो विनाशो भवति नतुदंडप्रहारेण घटध्वंसश्वात्र विनाशो भवति ध्वंसबाधयोः परस्परविरोधात् ध्वसंज्ञानं प्रतियोगिज्ञानसापक्षं बाधज्ञानं तु प्रतियोगिनस्त्रिकालाभावनिश्चयरूपः तयोरेकत्रानवस्थानरूपविरोधाद्रजतेध्वंसरूपनाशो घटनाश इथ न प्रतीयते ॥ ॥ ति सप्तदशकमलं समाप्तं हरिः ॐ तत् सत् ।।
For Private and Personal Use Only