________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अथ तृतीयकमले न्यायमतमंडनं खंडनं च दर्शयिष्यामः ॐ ॥ अस्मिन् न्यायमते ईश्वर एको नित्यो व्यापकश्च संरव्यापारिमाणपृथक्त्वसंयोगविभागज्ञानेच्छाप्रयत्नान त्यष्टगुणवानेव भवति । तेष्वष्टगुणेषु ज्ञानेच्छाप्रयत्नानि तु नित्यान्येव संति शेषपंचगुणास्तु अनित्या एव भवति। न्यायमंते जीवस्तु नानारूप एव नित्यो व्यापकश्चेति ज्ञानगुणतश्चेतनःस्वतस्तुजडात्मक एव ज्ञानेच्छासुखदुःखद्वेषप्रयत्नधर्माधर्म
संस्कारसंख्यापरिमाणपृथक्त्वसंयोगविभागेतिचतु दशगुणवानपि भवति । पृथ्वीजलाग्निवायूनां परमाणवो नित्या एव । आकाशः कालश्च दिशश्च मनश्चेति सर्वाण्यपि नित्यान्येव भवंति ॥
२॥ अधुना न्यायमते बंधवर्णनम् । देदे याऽऽत्मत्वभ्रांतिर्भवति यथा ब्राह्मणोऽहं क्षत्रियो ऽहं वैश्योऽहमिति तत एव सजातौ रागो विजाती वेषश्च भवति । ताभ्यां धर्माधर्मयोः प्रवृति भवति ततश्च शरीरप्राप्तिर्भवति तत एवाऽऽत्मनो दुःखादयो भवंति तस्मात् शरीरे याऽऽत्मन आत्मत्वबुद्धिः साऽऽत्मन एव संसारस्य कारणं भवति तदेवाऽऽत्मनो बंध इत्युच्यते ॥ इति बंधवर्णनम् ॥
For Private and Personal Use Only