SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३) रज्जुमात्रज्ञानात्कथं कषित सर्पस्य निवृत्तिर्भवति ॥ ६॥ उत्तरं ॥ यत्र रज्वादिजडपदार्थानां ज्ञानमंतःकरणस्य वृत्तिरूपं भवति तत्रावरणभंगमात्रं वृत्तेः प्रयोजनं भवति तदावरणं जडाश्रितं न संभवति किंतु जडस्याधिष्ठानं यच्चैतन्यमस्ति तस्याश्रितं भवति तथासति रज्जुसमानाकारां. तःकरणवृत्या रज्वविच्छिन्नचेतनस्यावरणभंगः क्रियते वृत्तिगताभासेन रज्जुः प्रकाश्यते चेतनस्तु स्वेन प्रकाश्यतेऽतो वृत्तिज्ञानस्याधिष्ठानचेतनेन सह रज्जुरेव विषयो न रज्जुमात्रविषयोऽस्ति तस्मात्सर्वत्रैवांतःकरणजन्यवृत्तिज्ञानस्य ब्रह्मैव विषयो भवति तथा सति यदेव रज्जुज्ञानं तदेव मिथ्यासर्पस्याधिष्ठानरज्जूपहितचेतनस्य ज्ञानं भवति तेन सर्पस्य निवृत्तिः संभवति ॥ ___ ७ ॥ ननु भवत्वेवं सर्पस्य निवृनिस्तथापि सर्पज्ञानस्य निवृत्तिः कथं भवति तस्याधिष्ठानस्य वृत्यविच्छिन्न साक्षिचेतनस्याज्ञात त्वादितिचेत्तत्रोत्तरं ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy