________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८)
श्री गुरुरुवाचस्थाणी चौरमहिरज्वां यथाऽऽकाशे च नीलताम् । पश्यंत्यज्ञा जले कांचं भ्रांत्या द्वैतं तथाऽद्वये ॥
शिष्य उवाच-भो भगवनत्र भ्रमस्थले पंच ख्यात यः श्रूयंते ताः यथा भवंति तथा कृपया सविस्तरं मह्यं वक्तव्याः इति शिष्यप्रार्थनां श्रुत्वा आदी ख्यातिचतुष्टयं यत्पूर्वपक्षरूपं तस्य मंडनं खंडनं च श्रीगुरुरब्रवीत् वक्षमाणकमले ॥ ॥ इति त्रयोदशकमले रंतिदेवस्य कथा समाप्ता । * १॥अथ चतुर्दशकमलेख्यातिचतुष्टयं प्रतिपाद्यते ।* अधुना असत्ख्यात्यात्मख्यात्यन्यथाख्यात्य.
__ ख्यातीनां वर्णनम् ॥ बुद्धमतानुयायी माध्यमिक असतख्याति वदति तच्छृणु। सर्वशून्यरूपं भवति तस्मात् रज्जुदेशेऽन्यत्रवा सर्पस्यात्यंताभावोऽस्ति तस्यात्यंताभावरूपस्य सर्पस्य रज्जुदेशे यद्भानं कथनं च साऽसतुख्यातिरस्ति तत्तु न संभवति ' नासतो विद्यते भावो' इति भगव. द्वाक्येन विरोधात् वंध्यापुत्रस्य कनकं विना कुंडलस्य मृदंविना घटस्य तंतुंविना पटस्य च भानादर्शनाच्च सर्वत्रात्यंताऽभावस्य तुल्यत्वात्
For Private and Personal Use Only