________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षुत्तृट्समो गात्रपरिश्रमश्चदैन्यंक्लमः शोकविषाद
मोहाः। सर्वे निवृत्ताः कृपणस्य जंतोर्जिजीविषोर्जीव जला
पणान्मे ॥ ११ ॥ इति प्रभाष्य पानीयं म्रियमाणस्य पिपासया। पुल्कसायादाद्वीरो निसर्गकरुणो नृपः ॥१२॥ तस्य त्रिभुवनाधीशाः फलदा फलमिच्छतां ।
आत्मानं दर्शयांचकुर्मायाविष्णुविनिर्मिताः॥१३॥ ४॥ भो शिष्य ये सत्पुरुषा एतादृशाः सन्ति तेषांहि
अपरोक्षज्ञानं सुलभं भवति तदुक्तं वासिष्ठे ग्रंथे॥ अपि पुष्पदलनाद्वै नयनोन्मीलनात्तथा । सुकरोऽहंवृत्तेस्त्यागो नाऽत्रक्लेशो मनागपि ।
भोः सौम्य सर्वमिदमहंच वासुदेव इति ज्ञात्वा जीवन्मुक्तः सन्विदेहमोक्षं प्राप्य न स पुनरावर्तते ॥ ___ ॥सः शिष्योऽपि गुरुदेवस्य वाक्यं श्रुत्वा पुनरपि नम्रतासंयुक्तः सन् उवाच-भोः स्वामिन् सर्वमिदमहं च वा सुदेव इति ज्ञाने सति गुरुशिष्यादिद्वतज्ञानं कथं सिद्ध्यति.
For Private and Personal Use Only