________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( २ )
* १ ॥ अथ त्रयोदशकमले रंतिदेव नृपतेः कथावर्णनं ।
+
Acharya Shri Kailassagarsuri Gyanmandir
रंतिदेवस्य ही यश इहामुत्र च गीयते ॥
वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः ॥ १ ॥ निष्कंचनस्य धीरस्य सकुटुंबस्य सीदतः ॥ व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल ॥ २ ॥ घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ कृच्छ्रप्राप्त कुटुंबस्य क्षुत्तृभ्यां जातवेपथोः ॥ ३ ॥ अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥ तस्मै संव्यभजत्सोऽन्नमादृत्य श्रद्धयान्वितः ॥ हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विजः ॥ ४ ॥
For Private and Personal Use Only