________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ओ३म्
अथ गणपाठः।
१-सादीनि सर्वनामानि ॥ १० ॥१।१ । २७॥
सर्वादीनि प्रतिापदिकानि सर्वनामसंज्ञानि भवन्ति । सर्वे । सर्वस्मै । सर्वेषां नामानि सर्वनामानीति समासेनान्वर्थसंज्ञाविज्ञानात् सर्वो नाम काश्चन् मनुष्यविशेषस्तस्मै सर्वाय देहीति सर्वनामसंज्ञा न भवति । अत एव विशेषणवाचकानि सर्वादीनि प्रादिपदिकानि विज्ञेयानि
सर्व । विश्व । उभ । उभय । डतर । डतम । इतर । अन्य । अन्यतर । त्व । त्वत् । नेम । सम ( १ ) सिम ( २ ) पूर्वपरावरदक्षिणोत्तरापराधराणि ध्यवस्थायामसंज्ञायाम् ॥ स्वमज्ञातिधनाख्यायाम् ॥ अन्तरम्बहियोंगोपसंव्यानयोः ॥ त्यद् । तद् । यद् । एतद् । इदम् । अदस् । एक । द्वि । युष्मद् । अस्मद् । भवतु । किम् । इति सर्वादिगणः॥
२-स्वरादिनिपातमव्ययम् ॥०॥ ११॥ ३७॥ स्वरादयश्च निपाताश्चैषां समाहारः स्वरादिनिपातमव्ययसंज्ञं भवति । निपाताश्चादयो वक्ष्यन्ते
स्वर । अन्तर् । प्रातर् । एते अन्तोदात्ताः । पुनर् । आधुदात्तः । सनुतर् । उच्चैम् ।। नीचैस् । शनैस् । ऋधक् । पारात् । ऋते । युगपत् । पृथक् । अन्तोदात्ताः । ह्यस् ।। श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस।।
आविस । अवम् । अधस् । समया । निकषा । स्वयम् । मृषा। नक्तम् । नञ् । हेतौ । प्रद्धा । इद्धा । सामि । ह्यस्प्रभृतयोऽप्यन्तोदात्ताः । वत् ( ३ ) सन् । सनात् । सनत् ।
(१) सूत्रान्तरे समानामिति निर्देशात्सर्वपर्यायस्यैव समशब्दस्य सर्वनामसंज्ञेष्यते तेन तुल्यवाचकस्य न भवति ॥
(२ ) इमानि त्रीणि सूत्राण्यष्टाध्याय्यामपि पठ्यन्ते । तत्र जसि विभाषा सर्वनामसंज्ञा । अत्र तु सामान्यन ॥
( ३ ) वदिति तदन्तस्य वतिप्रत्ययान्तस्य ग्रहणम् । ब्राह्मणवत् । क्षत्रियवत् ।। स्थानिवत् । इत्यादि ॥
For Private And Personal Use Only