________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२४
उणादिकोषः ॥
सावसेः || १८१ ॥ स्वस्ति ॥ १८१ ॥
वौ तसेः ॥ १८२ ॥ वितस्तिः ॥ १८२ ॥ पदिप्रथिभ्यां नित् ॥ १८३ ॥ पत्तिः । प्रथितिः ॥ १८३ ॥ दृणातेर्द्रस्वः ॥ १८४ ॥ दृतिः ॥ १८४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कृतकपिभ्यः कीटन् ॥१८५॥ किरीटम्। तिरीटम् | कृपीटम् ॥ १८५ ॥ रुचिवचिकु चिकुटिभ्यः कितच् ॥ १८६ ॥ रुचितम् । उचि। तम् । कुचितम् । कुटितम् ॥ १८६ ॥
कुटिकुषिभ्यां क्मलन् ॥ १८७॥ कुट्मलम् । कुष्मलम् ॥ १८७॥
( १८१ ) सुष्ठु अस्ति वर्त्तत इति स्वाती । कल्याणं वा । बहुलवचनाद - भूमावनिषेधः । स्वरादित्वादव्ययत्वं च ॥
( १८२ ) विशेषेण तस्यत्युपक्षिपति वा सा वितस्तिः । द्वादशाङ्गुलं परिमाण वा ॥
( १८३ ) पद्यते गच्छत्यसौ पत्तिः । पदातिः । पुरुषो वा । प्रथ्यते या सा प्रथितिः । प्रख्याति । तितुत्रेति सूत्रेऽग्रहादीनामिति वार्तिकेनेट् ॥ ( १८४ ) दीर्यतेऽसौ दृतिः । चर्ममयं पाचं वा ॥
( १८५ ) किरति विक्षिपतीति किरीटम् । मुकुटं । शिरोवेष्टनं वा । तरतीति तिरीटम् । शिरोवेष्टनम् । लोध्रो वा । कल्पतेऽसौ कृपोटम् । कुनिरुदकं वा | बाहुलकादच लत्वाभावः ॥
1
( १८६ ) रोचते तत् रुचिरम् । मिष्टं वा । वक्तुं योग्यमुचितम् | योग्यं वा । कोचति शब्दतारं करोतीति कुचितम् । परिमितं वा । कुटतीति कुटितम् | कुटिलं वा ॥
(१८० ) कुटतीति कुड्मलम् । मुकुलम् ( फूलती हुई कली ) इतिप्रसिम् । कुष्णाति निष्कर्षतीति कुष्मलम् । पर्णं वा ॥
For Private And Personal Use Only