________________
Shri Mahavir Jain Aradhana Kendra
१०४
www. kobatirth.org
पा० ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
क्कदिकडिकटिभ्योऽम्बच् ॥ ८२ ॥ करम्बम् । कदम्बः ।
कडम्बः । कटम्बः ॥ ८२
कदेर्णित् पक्षिणि ॥ ८३ ॥ कादम्बः ॥ ८३ ॥ कलिकर्योरमः ॥ ८४ ॥ कलमः । कर्दमः ॥ ८४ ॥ कुणिपुल्योः किन्दच् ॥ ८५ ॥ कुपिन्दः । पुलिन्दः ॥ ८५ ॥ कुपेव वश्च ॥ ८६ ॥ कुविन्दः । कुपिन्दः ॥ ८६ ॥ नौ पथिन् ॥ ८७ ॥ निषङ्गथिः ॥ ८७ ॥ उद्यतैश्चित् ॥ ८८ ॥ उदरथिः । ८८ ॥ सच्चि ॥ ८९ ॥ सारथिः ॥ ८९ ॥
( ८२ ) करोतीति करम्बम् । व्यामिश्रम् । कदतीति कदम्बः । वृक्षभेदो वा । कडत्यावृणोतीति कडम्बः । अग्रभागो वा । कटतीति कटम्बो वादिनं वा ॥
( ८३ ) कर्दात विकलो भवतीति कादम्बः पक्षिभेदो वावक प्रसिद्धः ॥ (८४) कलते संङ्ख्यातीति कलमः । शालिभेदो वा । कर्दति कुत्सितं शब्दयतीति कर्दमः पापं वा ॥
(८५) कुण्यते शब्दद्यतेऽसौ कुणिन्दः । शब्दो वा । पोलति महान् भवतीति पुलिन्दः । शवरश्चाण्डालभेदो वा । बाहुलकात् - अलति भूषय तोति' अलिन्दः । गृहैकदेशो वा । प्रज्ञादित्वादणि आलिन्द इत्यपि सिद्धम् ॥ ( ८६ ) कुप्यति क्रुद्धो भवति स कुविन्दः । कुविन्दः तन्तुवायो वा ॥ (८०) नितरां सजति स करोतीति निषङ्गथिः । लिङ्गको वा । घित्वात् कुत्वम् ॥
(८८) उदृच्छन्त्यूर्ध्वं गच्छन्त्यापोऽस्मिन् स उदरथिः । समुद्रो वा ॥ ( ८ ) सारयतीति नियमेन प्यालयतीति सारथिः । नियन्ता वा ।
For Private And Personal Use Only