________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उगादिकोषः ।
HED
वातप्रमीः ॥ १॥
ऋतन्यजिवन्यज्यर्पिमद्यत्यङ्गियुकशिभ्यः कनिच्यतुजलिजिष्णुजिष्ठजिसनस्यनिथिन्नुल्पसासानुकः ॥ २ ॥ रनिः। तन्यतुः । अञ्जलिः। वनिष्णुः । अञ्जिष्ठः । अर्पिसः। मत्स्यः। अतिथिः । अङ्गुलिः । कवसः । यवासः । कृशानुः ॥ २ ॥
(१) वात इव प्रमिणोति प्रक्षिपतीति वातप्रमीः । अतिशीघ्रगामी हरिणविशेषो वा । पुंल्लिङ्ग एवायं शब्द :। वातप्रमीन मृगान् । ङौ तु वातप्रमी । अमि वातप्रमीम् । बाहुलकात-उश्यते काम्यतेऽसौ उशी वाञ्छा तत्कुशला नरा अस्मिन सन्तीति उशीनरो देशः । अत्र बहुलवचनादेव सम्प्रसारणम् ॥
(२) एभ्यो द्वादशधातुभ्यः कनिजादयो द्वादश प्रयत्या यथासंख्यं भवन्ति । ऋच्छति गच्छतोति रनिः । बटुमुष्टिहस्तो वा । प्रसृताङ्गुलिररनिः। तनु-यतुच् । तनोति विस्तृणोतीति तन्यतः। वायूरात्रिवी । अजूअलिच । अनक्ति व्यक्तं करोतीति, अञ्जलिः । संयुती करौ वा । वनइष्णु च । वनोति याचतेऽसौ निष्णुः । अपानवायुर्वा । अजू-इष्टच । अनक्ति प्रकटयति पदार्थानिति, अज्जिष्ठः । सूर्यो वा । अर्पि-इसन । अर्पयतीति, अर्पिसः । अग्रमांसं वा । माद्यति हृष्यतीति मत्स्यः । मीनो वा । अत-इथिन् । अति निरन्तरं गच्छति भ्रमतीत्यतिथिः । अकस्मादागतः सज्जनो वा। न विद्यतेनियता तिथिरस्थति व्यत्यत्यनन्तरम् । स्त्रियां कदिकाराक्लिन इति डीप । अतिथी स्त्री। अगि-उलि । अड गति चेष्टतेऽनेन सोङगुनिः । करशाखा वा । कु-अस । कौति वा कवत इति कवसः । कण्टकजातिर्वा । अच इति पाठान्तरम् । तदा कवत इति कवचम् । यौति । मिश्यतीति यवासः । कण्डकवृक्षभेदो वा । कृषति तनूकरोतीति कृशानुः । अमिनर्वा ॥
For Private And Personal Use Only