________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा०२॥
रुजेः क्युन् ॥ ७९ ॥ रजनम् ॥ ७९ ॥ भूसूधूभ्रस्जिभ्यश्छन्दसि ॥ ८० ॥ भुवनम् । सुवनम् । निधुवनम् । भृजनम् ॥ ८॥
कृपवृजिमन्दिनिधानः क्युः ।। ८१॥किरणः। पुरणः । वृजनम् । मन्दनम् । निधनम् ॥ ८१ ।। धृषधिषच सज्ञायाम् ॥ ८२ ॥ धिषणा ॥ ८२ ॥
(६) रजति वस्त्राण्यनेन तद्रजनम् । कुसुम्भं वा । स्त्रियां डोष । रजनो हरिद्रा । ल्युट प्रत्यये सति रज्जनमित्येव स्वरभेदश्च भवति । बाहुलकात-कल्पतेऽसौ कृपणः । लोभयुक्तो वा ॥
(८०) क्युन् । भवतोतिभुवनम् । लोको वा । बहुलवचनाद् भाषायामपि प्रयुज्यते । सूते सूयते वा स सुवनः। ईश्वरः मी वा । धनोति कम्पयतीति धुवनः । अग्नि । निधुवनम् । रतिक्रीडा वा । यद् यस्मिन् वा भृज्जति परिपक्वं भवतीति भृज्जनम् । अन्नमर्जनकपालं वा ॥
(८१) किरति विक्षिपत्यन्धकारमिति किरणः । पिपर्ति पालयति परयति वा स पुरणः । जलैः पूर्णौ भवतीति समुद्रो वा। वक्ते वर्जयतीति वजनम् । अन्तरिक्षं बलं वा । यो येन वा मन्दते स्तौति स्वपिति कामयते वा तन मदनम् । स्तोत्रं वा । नितरां दधाति यतन्निधनम् । मरणं वा । बाहुलकात-केवलादपि धनम् ॥
(२) धृष्णोति प्रागल्भ्यं ददाति स धिषण: गुरु: । धिषणा बुद्धिवा। अब सजाग्रहणेन ज्ञायते । उणादयः सामान्यायं यौगिका भवन्तीति । सज्ञायास्तस्मिन्नर्थे रूढत्वात् । यदि च प्रकृतिप्रत्ययविभागेन उमादिभ्यो यौगिकोऽर्थो न निस्सरेत तर्हि सर्व उणादिस्थाः शब्दाः सजावाचका एव स्युः । पुनः सजाग्रहणमनर्थकं स्यात् ॥
For Private And Personal Use Only