________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
आप्नोतेईस्वश्च ॥ ५८ ॥ आपः ॥ ५८॥ परौ बजेः षश्च पदान्ते ॥ ५९ ॥ परिव्राट् ॥ ५९ ॥ हुवः श्लुवञ्च ॥ ६० ॥ जुहूः ॥ ६॥ सुवः कः ॥ ६१ ।। खुवः ।। ६१ ॥ चिक् च ॥ ६२ ॥ युक् ॥ ६२॥ तनोतेरनश्च वः ॥ ६३ ॥ त्वक् ॥ ६३ ॥ ग्लानुदिभ्यां डौ ॥६४॥ ग्लौः । नौः ॥ ६४॥ चिरव्ययम् ॥ ६५॥
(५८) आप्नुवन्ति शरीरमित्यापः । अस्य नित्यं बहुवचनत्वं स्त्रीत्वं च । अपः । अद्भिः । अद्भ्यः । इत्यादि ।
(५६) विप् । परितः सर्वतो वति स परिवाट । परिवाजी । परिवाजः । संन्यासी वा ॥
(६०) जुहोति ददायति वा यया सा जुहूः । सम्भेदो वा ॥
(११) सवति घृतमस्मात् स सुवः । यज्ञसाधनं वा। बहुलवचनातध्रुवति स्थिरं भवतीति ध्रुवम् । निश्चलं वा ॥
(६२) स धातोश्चिक प्रत्ययोऽपि भवति । घृतमस्याः सति सा सक । यज्ञीचितद्रव्यं वा ॥
(६३) तनोति विस्तृता भवतीति त्वक् । त्वचौ । त्वचः । शरीरावरणं चर्म वल्कलं वा ॥
(६४ ) ग्लायति हर्षक्षयं करोतीति ग्लौः । चन्द्रमा वा । नुदति प्रेरयतीति नौः । जलतरणसाधनं वा ॥
(६५) अवस्थ एजन्तप्रत्ययान्तश्च्च्यन्त एवाव्ययसंज्ञो भवति। एतेन नियमेनोणादीनां व्यत्यन्नपक्षे कृन्मेजन्त इत्यनेनाच्यन्तानामव्ययसज्ञा न भवति। अग्लौ ग्लौः संपयत इति ग्लौकरोति । ग्लो भवति ग्लो स्यात् । नौकरोति इत्यादि । ग्लौः। नौः। अत्र केवलानामव्ययसंज्ञाऽभावाद्विभक्तिलुङ्न भवति॥
For Private And Personal Use Only