________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गरापाठः॥
अितिणितिकितिचतद्धिते परतोऽनु शतिकादिशब्दानां पूर्वपदस्योत्तरपदस्यचाचामादेरचःस्थानेवृद्धिर्भवति । अनुशतिकस्येदमानुशातिकम् :
अनुशतिक । अनुहोड । अनुसंवत्सर । अङ्गारवेणु । असिहत्य । बध्योग । पुष्करसत् । अनुहत् । कुरुकत । कुरुपञ्चाल । उदकशुद्ध । इहलोक । परलोक । सर्वलोक । सर्वपुरुष । सर्वभूमि । प्रयोग । परस्त्री । राजपुरुषात् प्यजि ॥ सूत्रनड । प्राकृतिगणोऽयम् ( १ ) ॥ इत्यनुशतिकादयः ॥
१८१-न्यङ्कादीनां च ॥ ५० ॥७॥ ३॥ ५३॥ न्यवादिषु कुत्वं निपात्यते । नितरामञ्चतीति :
न्यकुः । मद्गुः । भृगुः । दूरेपाकः । फलेपाकः । क्षणेपाकः । फलेपाका । दू. रेपाकृः । फलेपाकुः । तक्रम् । वक्रम् । व्यतिषङ्गः । अनुषङ्गः । अवसर्गः । उपसर्गः । मेघः । श्वपाकः । मांसपाकः । कपोतपाकः । उलकपाकः । संज्ञायामधः । अबदाघः । निदाघः (२) । न्यग्रोधः ॥ इति न्यवादयः ॥ ___१८२-पूजनात्पूजितमनुदात्तंकाष्ठादिभ्यः॥०॥८1१६७॥
पूजनवाचिभ्यः काष्ठादिभ्यः परं पूजितमुत्तरपद मनुदात्तं भवति । काष्ठश्चासावध्यापकः काष्ठाध्यापकः :
काष्ठ । दारुण । अमातापुत्र । अयुत । अद्भुत । अनुक्त । भृश । घोर । परम । सु । अति । अनुज्ञात । कल्याण । वेश ॥ इति काष्ठादयः ॥
१८३-मादुपधायाश्च मतोर्वोऽयवादिभ्यः॥१०॥८२१९॥
मकारान्तान्मकारोपधादवर्णान्तादवर्णोपधाच्च परस्य मतुपोमकारस्य वकारादेशो भ. वति नतु यवादिभ्यः परस्य मस्य वो भवति । मान्तात् किंवान् । शंवान् । मकारोपधात् । शमीवान् । दाडिमीवान् । अवर्णान्तात् । वृक्षवान् । खट्वावान् । अवर्णोपधात् । यशस्वान् । भास्वान् । मादुपधाश्चेति किम् अग्निमान् । अयवादिम्य इति किम् । यवमान् :
यव । दल्मि। ऊर्मि । भूमि । कृमि । क्रुच्चा । बशा । द्राक्षा । वृक्षा । वेशा । 5. (१)अत्राकृतिगणनेदमपि सिद्धं भवति । अभिगममर्हति, अभिगामिकः । अधिदेवेभवमधिदैविकम् । आधिभौतिकम् । आध्यात्मिकम् । चतस्रएवविद्याः, चातुर्वैद्यम् । स्वार्थेष्यन् ।
(२) अर्घ, अवदाघ, निदाघ, इति त्रिषु शब्देषु संज्ञायामेव कुत्वम् । अन्यत्र । अर्हः । अवदाहः । निराहः ॥
For Private And Personal Use Only