________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
गणपाठः॥
-
अणुनिपुणे । पुत्रकृत्रिमे । स्नात वेदसमाप्तौ ॥ शून्यरिक्ते । दानकुत्सिते ॥ तनुसूत्रे ॥ (१) । ईयसश्च ॥ श्रेयस्कः । ज्ञात । कुमारीकीडनकानिच । इति यावादयः ।। .....
१५१-विनयादिभ्यष्ठक । प.॥५।४।३४॥ विनयादिप्रातिपदिकेभ्यः स्वार्थे ठक् प्रत्ययो भवति । विनय एव, वैनयिकः :--
विनय । समय । उपायाधुस्वत्वं च । श्रीपयिकः । सङ्गति । कथंचित् । प्रक. स्मात् । समयाचार । उपचार | समाचार । व्यवहार । सम्प्रदान । समुत्कर्ष । समूह । विशेष । प्रत्यय । अस्थि । कण्डु । इति विनयादयः ॥
१५२-प्रज्ञादिभ्यश्च ॥१०॥५।४ । ३८ ॥
प्रजानातीति प्रज्ञः । प्रज्ञादिप्रातिपदिकेभ्यः स्वार्थेऽण् प्रत्ययो भवति । प्रज्ञ एवं प्राज्ञः । प्राज्ञी स्त्री । यस्यास्तु प्रज्ञा विद्यते सा प्राज्ञा भवति :..
प्रज्ञ । वणिक् । उशिक । उष्णिक । प्रत्यक्ष । विद्वस । विदन् । पोउन् । षोडश। विद्या । मनम् । श्रोत्रशारीरे । श्रोत्रम् । जुहीत् । कृष्णमृगे। कार्ष्णः । चिकीर्षत् । चोर । शक । योध । वक्षस् । चतुस् । धूर्त । वस् । एत् । मरुत् । कुङ् । राजा । सत्वन्तु । दशाई । वयस् । पातुर । असुर । रक्षस । पिशाच । अशनि । कार्षापण । देवता। बन्धु ॥ इति प्रज्ञादयः ॥
१५३-हिदण्डयादिभ्यश्च ॥०॥५।१।१२८॥ द्विदण्ड्यादिशब्देषुबहुव्रीहिसमासेसमासान्तइच प्रत्ययो निपात्यते । द्वाभ्यांदण्डाभ्यां हन्यतेऽसौद्विदरिड । अन्ययीभावसमासे परिगणनमतोव्ययत्वम् । एवं द्विमुसाले :
द्विदण्डि । द्विमुसलि । उभानमलि । उभयान्जलि । उभाकाण । उभयाकर्णि । उभादन्ति । उभयादन्ति । उभाहस्ति । उमयाहस्ति । उमापाणि । उमयापाणि । उ. भावाहु । उभयावाहु ( २ )। एकपदि । प्रोडपदि । श्राव्यपदि । सपदि । निकुच्यकर्णि । सहनपुच्छि॥ इति द्विदण्ड्यादयः॥
(१) उष्णकः, शीतको वातुः । नूनकः, वियातको वा पशुः । श्रगुको निपुः णः । पुत्रकः कृत्रिमः । स्नातको वेदपारगः । शून्यकं रिकम् । कुत्सितं दानं दानकम् । तनुकं सूत्रम् ॥
(२) अत्रोभयत्र निपातनादिप्रत्यस्य लोपः । प्रत्ययलक्षणेन चाव्ययीमावसंज्ञा भवत्येव । अत्रापिकचिच्छब्दातत्पुरुषसमासान्ता निपात्यन्ते । तेऽर्थसङ्गत्या ज्ञेयाः ॥
For Private And Personal Use Only