________________
Shri Mahavir Jain Aradhana Kendra
३८
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
१११ - उगवादिभ्यो यत् ॥ प० ॥ ५ । १ । २॥
उवर्णान्ताद् गवादिभ्यश्च प्रातिपदिकेभ्यः प्राक्क्रीतीयेष्वर्थेषु यत् प्रत्ययो भवति । शङ्कवे हितं शङ्कव्यम् दारु । गवे हितं गव्यम् :
गो । हषिस् । बर्हिस । खट । अष्टका | युग । मेधा । स्रुक् ॥ नाभि नभं च ॥ शुनः संप्रसारणं वाच दीर्घत्वं तत्सनियोगेन चान्तोदात्तत्वम् (१) ॥ शुन्यम् | शून्यम् ॥ ऊधसोऽनङ् च ॥ ऊधन्यः । कूपः । उदर । खर । स्खद | अक्षर । विष । स्कन्द । अध्वा । इति गवादयः ॥
११२ - विभाषा हविरपूपादिभ्यः ॥ अ० ॥ ५ । १ । ४ ॥ हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्रातिपदिकेभ्यः प्राक्क्रीतीयेष्वर्थेषु विभाषा यत् प्रत्ययो भवति । पक्षे छः । पुरोडाशाय हिताः पुरोडाश्याः पुरोडाशया वा तण्डुलाः । अपूपेभ्यो हितं, अपूप्यम् । अपूयम् :
अपूय । तण्डुल । अभ्यूष । अभ्योष । पृथुक | अभ्येष | अर्गल । मुसल | सूप | 1 कटक । कर्णवेष्टक । किण्व || अन्नविकारेभ्यश्च ( २ ) ॥ पूप । स्थूणा । पीप । अश्व । पत्र । कट । अयःस्थूण । ओदन । श्रवोष । प्रदीप । इत्यपूपादयः ॥
1
1
११३ - असमासे निष्कादिभ्यः ॥ भ० ॥ ५ । ११२० ॥ असमस्तेभ्यो निष्कादिप्रातिपदिकेभ्य आर्हीयेष्वर्थेषु ठक् प्रत्ययो भवति । निष्कं परिमाणमस्य तन्नैष्किकम् । असमासे किम् । परमनैष्किकम् । अत्र ठञ्स्वरे भेदः :निष्क | पण | पाद । माष । वाहद्रोण । षष्टि । इति निष्कादयः ॥ ११४ - गोइय चोऽसङ्ख्यापरिमाणाश्वादेर्यत् ॥ प्र० ॥ ५ । १ । ३९ ॥
संख्यापरिमाणाश्वादि विवर्जिताद् गोशब्दाद द्वयचश्च प्रातिपदिकाद्यत् प्रत्ययो भवति । तस्य निमित्त संयोगोत्पातावित्यर्थे । गोर्निमित्तं संयोग उत्पातो वा गध्यः । द्वयच्धनस्यनिमित्तं संयोग उत्पातो वा । धन्यम् । स्वर्ग्यम् | यशस्यम् । आयुष्यम् । संख्या
( १ ) नामये हितो नभ्योऽक्षः । नभ्यमञ्जनम् । यस्तु शरीरावयववाची नाभि शब्दस्ततः शरीरावयवादिति यति कृते नाभये हितं नाभ्यम् तैलमिति भवति । चकारस्यानुक्तसमुच्चयार्थत्वान्नस्तद्धित इति लोपो न भवति ।।
( २ ) अन्नविकारवाचिभ्यो यत् प्रत्ययो भवति । शष्कुलीभ्यो हितं शष्कुल्यम् । सूप्यम् । श्रदन्यम् ॥
For Private And Personal Use Only