________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
गणपाठः॥
१०१-वेतनादिभ्यो जीवति ॥ अ०॥ ४ । ४ । १२॥
तृतीयासमर्थवेतनादिप्रातिपदिकेभ्यो जीवतीत्यर्थे ठक् प्रत्ययो भवति । वेतनेन जी. वति, वैतनिकः
वेतन । वाह । अर्द्धवाह । धनुर्दण्ड (१) । जाल । वेस । उपवेस । प्रेषण उपस्ति । सुख । शय्या । शक्ति । उपनिषत् । उपवेष । स्रक् । पाद । उपस्थान । इति वेतनादयः ॥
१०२-हरत्युत्सङ्गादिभ्यः ॥ अ० ॥ ४ । ४ । १५॥
तृतीयासमत्सङ्गादिप्रातिपदिकेभ्यो हरतीत्यर्थे ठक् प्रत्ययो भवति । उत्सङ्गेन ह. | रति, औत्सङ्गिकः :उत्सङ्ग । उडुप । उत्पत । पिटक । उडप । पिटाक । इत्युत्सङ्गादयः ॥
१०३-भस्त्रादिभ्यः ष्ठन् । अ० ॥ ४ । ४ । १६ ॥
भस्त्रादितृतीयासमर्थप्रातिपादिकेभ्यो हरतीत्यर्थे ष्ठन् प्रत्ययो भवति । भस्त्रया हरति, भस्त्रिकः , भस्त्रिकी :--
भस्त्रा । भरट ।भरण । भारण । शीर्षभार । शीर्षेभार । अंसभार । अंसेभार । इति भस्त्रादयः ॥
१०४-निवृत्तेऽक्षयूतादिभ्यः ॥ अ.॥४।४।१९॥ अक्षयूतादितृतीयासमर्थप्रातिपदिकेभ्यो निवृत्तेऽर्थे ठक् प्रत्ययो भवति । अक्षयूतेन निवृत्तम्, प्राक्षयूतिकं वैरम् :-- ___ अक्षयूत। जानुप्रहृत । जाप्रहृत । पादस्वेदन । कण्टकमर्दन । गतागत । यातोपयात । अनुगत । इत्यक्षद्यूतादयः ॥
१०५--अण महिष्यादिभ्यः॥ अ० ॥ ४ । ४।४८॥ पष्ठीसमर्थमहिष्यादिप्रातिपदिकेभ्यो धर्म्यमित्यर्थेऽण प्रत्ययो भवति । महिष्या धर्म्य माहिषम् :--
महिषी । प्रजावती । प्रलेपिका । विलेपिका । अनुलेपिका । पुरोहित । मणिपाली अनुचारक । होतृ । यजमान । इति महिष्यादयः ॥ ( १ ) अत्र संघातविगृहीतयोर्ग्रहणं भवति । धनुर्दण्डेन जीवति धानुर्दण्डिकः । धनुषा जीवति धानुष्कः । दाण्डिकः ॥
For Private And Personal Use Only