________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
८१-कच्छादिभ्यश्च ॥ अ०॥ ४।२। १३३ ॥ कच्छादिदेशवाचिप्रातिपदिकेभ्यः शैषिकोऽण प्रत्ययो भवति । वुञआदेरपवादः । कच्छे भवः काच्छः :
कच्छ । सिन्धु । वर्ण । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व । कुरु । रकु । अणु । अण्ड । खण्ड । द्वीप । अनूप । अजवाह । विनापक । कुलून । इति कच्छादयः ॥
८२-गहादिभ्यश्च ॥ अ० ॥ ४ । २।१३८॥
गहादिप्रातिपदिकेभ्यः शैषिकश्छः प्रत्ययो भवति अणोरपवादः । अन्तःस्थे भव अन्तःस्थीयः :
गह । अन्तःस्थ । सम । विषम । मध्यमध्यमं चाण चरणे ( १) उत्तम । अङ्ग । वङ्ग । मगध । पूर्वपक्ष । अपरपक्ष । अधमशाख । उत्तमशाख । समानशाख । एकग्राम । एकवृक्ष । एकपलाश । इप्वन । इप्पनीक। अवस्यन्दी । अवस्कन्द । कामप्रस्थ । खाडायनि । खाण्डायनी । कावेराण । कामवेरणि । शैशिरि । शौङ्गि ।आसुरि । आहिसि । श्रामित्रि । व्याडि । वैदजि । भौजि ।श्राद्धयश्वि । आनृशंसि । सौवि । पारकिाअग्निशमन् ।देवशर्भन् श्रौति ।आरटकि । वाल्मीकि । क्षेमवृद्धिन् । उत्तर । अन्तर ।। मुखपार्श्वतसोलापः ।। जनपरयोः कुक् च ॥ देवस्य च ॥ वेणुकादिभ्यश्छण( २ ) इति गहादयः ॥
८३-सन्धिवेलायूतुनक्षत्रेभ्योऽण ॥ अ०॥४॥३॥ १६॥ सन्धिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवाचिभ्यः प्रातिपदिकेभ्यः शैषिकोऽण् प्रत्ययो भवति । ठोऽपवादः । अण्ग्रहणं वृद्धाच्छस्य बाधनार्थम् । सन्धिवेलायां जातः सान्धिवेलः । ग्रैष्मः । तैपः । पौषः :
सन्धिवेला । सन्ध्या । अमावास्या । त्रयोदशी । चतुर्दशी । पञ्चदशी । पौर्णमासी ।
(१) अस्यैव सूत्रस्य शेषवार्तिकप्रमाणेन पृथिवीमध्यशब्दस्य मध्यमादेशश्चरणे. ऽभिधेये निवासलक्षणोऽण् प्रत्ययः। अन्यत्र तु छ एव । पृथिवीमध्ये निवास एषां ते मा. ध्यमाश्चरणाः । चरणादन्यत्र । मध्ये भवो मध्यमीयः ।। ___(२ ) मुखपार्श्वयोस्तसन्तयोरन्त्यलोपः । मुखतोभवं मुखतीयम् । पार्श्वतीयम् । जने भवो जनकीयः । परकीयः । देवो भक्तिरस्य देवकीयः । वेणुकादिराकृतिगणः । वेणुकदेशे भवो वैणुकीयः । वरेणकीयः । पालाशकीयः ॥
For Private And Personal Use Only