________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
३५
उक्थ । लोकायत । न्याय । न्यास । निमित्त। पुनरुक्त । निरुक्त । यज्ञ । चर्चा । धर्म । क्रमेतर । श्लक्षण । संहिता । पद । क्रम । संघात । वृत्ति । संग्रह । गुणागुण । आयुर्वेद ॥ द्विपदी, ज्योतिषि ( १ ) ॥अनुपद । अनुकल्प । अनुगुण । इत्युक्थादयः ॥
६६-क्रमादिभ्यो वुन् ॥ ० ॥ ४ । २ । ६१ ।। तदधीते तद्वदेत्यर्थेक्रमादिभ्यो वुन् प्रत्ययो भवति । क्रममधीतेक्रमकः । पदकः :क्रम । पद । शिक्षा । मीमांसा । सामन् । इति क्रमादयः ॥
६७-वसन्तादिभ्यष्ठक् ॥ ४।२।६३ ॥ तदधीते तद्वदेत्यस्मिन् विषये वसन्तादिप्रातिपदिकेभ्यष्ठक् प्रत्ययो भवति । वसन्तसहचरितो ग्रन्थो वसन्तस्तमधीते वेद वा स वासन्तिकः । वार्षिकः । एवं सर्वत्र :
बसन्त । वर्षा । शरद् । हेमन्त । शिशिर । प्रथम । गुण । चरम । अनुगुण, अपर्वन् । अथर्वन् । ॥ इतिवसन्तादयः ।।
६८-संकलादिभ्यश्च ॥ ॥ ४ । २ । ७५॥ संकलादिप्रातिपदिकेभ्यश्चातुरर्थिकोऽञ् प्रत्ययो भवति । अणोऽपवादः । पुष्कलास्मिन् सन्तीति पौष्कलो देशः । सिकताया अदूरभवो ग्रामः सैकतः । यथासम्भवमर्थसंबन्धः___संकल । पुष्कल । उद्वय । उडुप । उत्पुट । कुम्भ । विधान । सुदक्ष । सुदत्त । सुभूत । मुनेत्र । सुपिङ्गल । सिकता । पूतीकी । पूलास । कूलास । पलाश । निवेश । गवेश । गम्भीर । इतर । शर्मन् । अहन् । लोमन् । वेमन् । वरुण । बहुल । सद्योज । अभिषिक्त । गोभृत् । राजभृत् । गृह । भृत । भल्ल । माल । ( वृत् ) इति संकलादयः॥
६९-सुवास्त्वादिभ्योऽण् ॥ अ०॥ ४ । २ । ७७ ॥
सुवास्त्वादिप्रातिपदिकेभ्यश्चातुरधिकोऽण् प्रत्ययो भवति । अनोऽपवादः । सुवास्तोरदूरं नगरं, सौवास्तवम् । सौवास्तवी नदी :__सुवास्तु । वर्गु । भण्डु । खण्डु । कण्डु । सेचालिन् । कर्पूरिन् । शिखण्डिन् । गर्त । कर्कश । शटीकर्ण । कृष्ण । कर्क । कर्कन्धमती । गोह्य । गाहि । अहिसक्थ । ( वृत् ) इति सुवास्त्वादयः ॥
( १ ) द्विपदी ज्योतिःशास्त्रमधीते जानाति वा स द्वैपदिकः ॥
-
For Private And Personal Use Only