________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
गणपाठः॥
२५ -यस्कादिभ्यो गोत्रे ॥ भ० ॥ २॥ ४ । ६३॥
यस्कादिभ्यः प्रातिपदिकम्यः परस्यास्त्रीलिङ्गस्य बहुवचनेवर्तमानस्य गोत्रप्रत्ययस्य लुग्भवति यदि तेनैव गोत्रप्रत्ययेन कृतं बहुत्वं भवेत्तदा । यस्कस्य गोत्रापत्यं यास्कः । यास्कौ । यस्काः। लभ्याः । तेनैवेति किम् । प्रियो यास्को येषां ते प्रिययास्काः स्त्रियामिति किम् । यास्क्यः स्त्रियः । गोत्र इति किम् । यास्काश्छात्राः । :
यस्क । लभ्य । दुह्य । अयःस्थूण । तृणकर्ण ( १ ) । सदामत्त । कम्बलमार । अहियोग । कर्णाटक । पर्णाडक । पिण्डीजङ्घ । बकसक्थ ( २ )। वस्ति । कद्रु । विधि । कद्रु । अजबस्ति । मित्रयु ( ३ ) रक्षामुख । जङ्घारथ । मन्थक। उत्कास। कटुक । मन्थक । पुष्करसद् । विषपुट । उपरिमेखल । कोष्टुमान । क्रोष्टुपा द । शीर्षमाय ( ४ ) । खरप ( ५ ) । पदक । वर्मक ( ६ ) भन्दन (७) । भडि. ल । भाण्डिल । भडित । भण्डित (८) । इतियस्कादयः ।।
२६-न गोपवनादिभ्यः ॥ • ॥ २ । ४ । ६७॥ गोपवनादिप्रातिपदिकेभ्यः परस्य गोत्रप्रत्ययस्य बहुवचनविभक्तौ लुङ् न भवति यत्रमोश्चेतिप्राप्तो लुक् प्रतिषिध्यते । गोपवनस्य गोत्रापत्यं गौपवनः । गौपवनौ । गौपवनाः ।:
गौपवन । शिग्रु । विन्दु । भाजन । अश्व । अवतान । श्यामाक । श्वापर्ण । इत्यष्टौ विदाद्यन्तर्गता गोपवनादयः ।।
२७-तिककितवादिभ्यो इन्हे ॥ भ० ॥ २।४ । ६८॥ तिकादिभ्यः कितवादिभ्यश्च परस्य गोत्रप्रत्ययस्य द्वन्द्वसमासे बहुवचनविभक्तौ लुग्भवति । तैकायनयश्च कैतवायनयश्चेत्यत्र तिकादिम्यः फिञ् तस्य लुक् :
(१) यस्कादिपञ्चम्यः शिवादित्वादण || (२) सदामत्तादिसप्तम्य इञ् ॥ ( ३ ) बस्त्यादिषड्भ्यो गृष्ट्यादित्वाड् ढञ् ॥ (४) रक्षामुखायेकादशभ्य इञ् ॥ ( ५ ) खरपशब्दान्नडादित्वात्फक् ।। ( ६ ) पदकवर्मकाम्यामि ॥ (७ ) भन्दनशब्दाच्छिवादित्वादण् । (८) भाडिलादिचतुर्योऽश्वदित्वात् फल ।।
For Private And Personal Use Only