________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ५४ )
वसंतराजशाकुने-चतुर्थी वर्गः ।
अंगारभस्मोपलवल्कपंकगर्ता गुहाकेशतुपास्थिविष्टाः ॥ घृणाकराः खर्पर कोटराया न नीचदेशाः शुभदा भवति ॥ ॥ ४२ ॥ सप्ताहमासायनहायनांते ग्रामं पुरं देशमवन्यवीशम् || एकत्र देशे रटति प्रदीप्तो निहंत्यवश्यं शकुनः क्रमेण ॥ ४३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
॥ टीका ||
न्यस्ताः ये डुमाः वृक्षाः तत्प्रमुखा वल्मीकः कृमिपर्वतः। "वल्मीकटं वामलूरो नाकुः शकशिरश्च सः । इति हैमः ॥४१॥ अंगारेति ॥ एते नीचदेशाः शुभा न भवन्ति । के ते इत्यपेक्षायामाह | अंगारेति || अंगारः ज्वलितकाष्टांशः भस्म क्षारम् उपलः प्रस्तरः वल्कं वृक्षत्वक पंकः कर्दमः गर्तः खातप्रदेशः गुहा दरी केशः अलकः तुषः धान्यत्वग् अस्थि प्रतीकं विष्ठा मलः वृणाकराः बीभत्सोत्पादकाः । खर्परकोटराद्या इति खर्परं चीवरमिति लोके मुद्रांडशकलम् । “खर्परस्तस्करे धूर्त भिक्षुपात्रकपा लयोः" इति श्रीधरः । कपालखर्परौ घटादीनां खंडेऽप्युपचारात् यदाह । “कपालं शिरसोऽस्थि स्याद्वटादेः शकले बजे" इति महेश्वरः । कर्परे इति पाठे कर्परं मस्तकस्यार्थास्थिवाचकं यदाह । “कर्परो जतुनि प्रोक्तः कपालेपि च कर्परः" इति विश्वः॥ कोटर: कोतर इति प्रसिद्ध इत्येवमादयः कर्परकोटरी आद्यौ मुख्यौ येषु ये तथोक्ता वा खर्परमस्थिविशेषः कोटराः प्रतीताः ॥ ४२ ॥ सप्ताहेति || एकत्र देशे यदा प्रदीप्तः शकुनः रटति त्यजति तदा क्रमेण परिपाट्या शकुनः अवश्यं निश्चयेन सप्तदिनांते ग्रामं निहन्ति मासान्ते पुरम् | "पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ " ॥ इत्यमरः । " द्वौ द्वौ मार्गादिमासौ स्याहतुस्तैरयनं त्रिभिः ॥ ॥ इत्यमरः । अयनांते देशं
॥ भाषा ॥
अंगारइति ॥ जलती लकडियां पडी होंय, और राखपडी होय, वा पाषाण होय, वा वल्कल, और कीच, और खात पटक बेकेगर्त, और गुफा, और बाल, और धान्यकी तुप, और हाड, और विष्ठा इनकूं आदिले ये नीच देश हैं सो शुभके देवेवारे नहीं हैं ॥ ४२ ॥ सप्तावेति ॥ एकप्रदेशमें जो प्रदीप्त शकुन होय तो क्रमकरके वो शकुन निश्चयही सात दिनके अंतमें ग्राम नाश करै, और मासके अंतमें पुयकं नाश करे और अपनके अंतमें देशक और वर्षके अं
For Private And Personal Use Only