________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८) वसंतराजशाकुने-तृतीयो वर्गः।। तेनैव रूपेण ततःक्रमेण पूजां विदध्याजलजस्य मध्ये ॥ धनुर्धरीवायसपिंगलानां कौलेयकस्यापि ततः शिवायाः॥ ॥ १४ ॥ गुरूपदेशात्समवाप्य मंत्रं शतं जपेत्तस्य कृतावधानः ॥ होमो दशांशेन च मंत्रजापात्ततो विधेयो मधुना समिद्भिः॥ १५ ॥ध्यानं विदध्यादथ वक्ष्यमाणरूपेण दु
युगलादिकानाम् ॥ तुष्यंति येनार्चनजाप्यहोमध्यानकतानस्य नरस्य देवाः ॥ १६॥
॥टीका ॥
वोक्तैः वस्तुभिः पूजा कायेति भावः॥१३॥ तेनैवेति॥ तेनैव पूर्वोक्तप्रकारेण जलजस्येति पिष्टानकृतकमलस्य मध्ये कमेण पूजां विदध्यात्कस्याः धनुर्धरीवायसपिंगलायाः धनुर्धरी पोदकी वायसः प्रसिद्धःपिंगलाः पूर्वप्रतिपादितान चात्रसमाहारबंदः तदेकत्वे च नपुंसकलिंगता स्यात् अतः धनुर्धरीवायसाभ्यां युक्ता पिंगलेति मध्यपदलोपी तत्पुरुषः। पुनः कस्येति कौलेयकस्य शुन इत्यर्थः । ततः कस्याः शिवायाः शगाल्याः। "अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः॥"इति हैमः॥१४॥गुरूपदेशादिति ॥ गुरूणामुपदेशः गुरूपदेशः तस्मान्मंत्रं प्राप्य शतं जपेत् । कीदृशः कृतावधान इति कृतमवधानं चित्तैकाम्यं येन स तथा । कस्येति पूर्वोक्तपंचानामित्यर्थः जात्यपेक्षया चैकवचनं ततः मंत्रजपादनंतरं मधुना क्षौद्रेण च पुनः समिद्भिः पालाशैः दशांशेन चेति यावत् मंत्रजपः तद्दशमभागेनेत्यर्थः । होमो विधेयः कर्तव्यः ॥१५॥ ध्यानमिति ॥ अथेति मंत्रजपानंतरं वक्ष्यमाणरूपेण अग्रे कथ्यमान
॥ भाषा॥
वरुणाय नमः ॥ ऐसे मंत्रनकरके पूजा करनी योग्य है ॥ १३ ॥ तेनैवेति ॥ पहले कह्यो जो प्रकार ताकरके चनको कियो जो कमल ताके मध्यमें धनुर्धरी जो पोदकी, और काक, और पूर्व कही जो पिंगला, चीवरीनाम कर प्रसिद्ध, और कौलेयक जो श्वान और शृ. गाली, इनको क्रम करके पूजन करे. ॥ १४ ॥ गुरुपदेशादिति ॥ गुरूनके उपदेशतें पांचोनके मंत्र प्राप्त होय करके फिर कीनो है एकाग्रचित्त जाने ऐसो मनुष्य सो मंत्र जपे, जाप किये, पीछे सहत और समिधा इन करके जितनो मंत्रनको जाप होय ताको दशांश होम करनो योग्य है ॥ १५ ॥ ध्यानामिति ॥ मंत्रको जप किये पीछे आगे कहेंगे ता प्र
For Private And Personal Use Only