________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५१०) वसंतराजशाकुनै एकोनविंशतितमो वर्गः ।
तरंगिणीरोधसि सौम्यरूपांत्रीपंच वा मुञ्चति या निनादान् ॥ शिवा शिवां तां नृपतित्वदात्री वन्देत देवीमभिवं दनीयाम् ॥ ७८ ॥ श्मशानभूमौ दिनमध्यभागे मध्ये रजन्याश्च गृहानदेशे ॥ या रौति तस्यै बलिमर्पयुक्तं भक्त्या प्रदद्याद्यदि भद्रामिच्छेत् ॥ ७९ ॥ सर्वेषु कार्येषु समुद्यतेषु बलिः शिवाया विनिवेदनीयः ॥ गृह्णाति यस्मिन्विषयेऽभ्यु पेत्य देवी बलिं यच्छति तत्र सिद्धिम् ॥ ८० ॥ इति वसंतराजशाकुने शिवारुते स्थानस्थितप्रकरणम् ॥६॥ कथ्यते बलिविधानमिदानी शाकुनागममतेन शिवायाः ॥. दिव्यमंत्रवलिबाधितदोषं साधिताखिलसमुद्यतकार्यम् ॥ ८१ ॥
. ॥ टीका ॥ तरंगिणीति ॥ तरंगिणीरोधसि नदीतटे या शिवा सौम्यरूपांस्त्रीपंच नादान्मुंचैति तां शिवां देवीमभिवंदनीयां नृपतित्वदात्री देत ॥ ७८ ॥ श्मशानेति ॥ श्मशानभूमौ दिनमध्यभागे मध्याह्ने तथा रजन्याश्च मध्ये गृहाप्रदेशे गृहस्य पुरः प्रदेशे या शिवा रौति यदि भद्रं कल्याणमिच्छेत्तदा तस्यै बलिमर्घयुक्तं भक्त्या अदद्यात् ॥ ७९ ॥ सर्वेष्विति।समुद्यतेषु सर्वेषु कार्येषु शिवायाः बलिनिवेदनीयः यस्मिन्विषये देवी अभ्युपेत्य आगत्य बलिं गृह्णाति तत्र सिद्धिं जल्पति ॥ ८॥
इति वसंतराजशाकुने टोकायां शिवारुते स्थानस्थितप्रकरणं पंचमम् ॥५॥ कथ्यते इति ॥ इदानी शाकुनागममतेन शाकुनसिद्धांतप्रोक्तेन शिवायाः ब
॥ भाषा॥ तरंगिणीति ॥ नदीके तटके ऊपर जो शिवा तीन वा पांच सौम्य शब्द बोले तो नमस्कार करबेके योग्य राजापनेकी करबेवाली ऐसी वो शिवा देवी ताय नमस्कार करें ।। ७८ ॥ श्मशानेति ॥ श्मशानमें मध्याहमें अर्धरात्रिमें घरके अगाडी इतनी जगहमें शृगाली बोले तो जो प्राणी कल्याणकी इच्छा करे तो वाके अर्थबलिदान अर्घसहित भक्तिपूर्वक देवै ॥ ७९ ॥ सर्वेष्विति ॥ संपूर्ण कार्यनमें शिवाकी बलि करै जा कार्यमें शिवा देवी आय करके बलिदान ग्रहण करै ता कार्यमें सिद्धि कहै है ये जाननो ॥ ८॥
इति वसंतराजभाषाटीकायां शिवारुते स्थानस्थितप्रकरणं पंचमम् ॥ ५ ॥ कथ्यते इति ॥ अब शकुनशास्त्रके मत करके शिवा नाम शृगालीको बलिविधान
For Private And Personal Use Only