________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५०२ ) वसंतराज शाकुने - एकोनविंशतितमो वर्गः ।
/
प्राचेतसी संचलितस्य काष्ठां शृगालिका जल्पति दक्षिणेन । यदा तदानीं सुबहूननर्थान्करोति चार्थानपहंति पुंसः ॥ ४७ ॥ दिशं प्रचेतः परिपाल्यमानां नरस्य यस्य व्रजतः शृगाली ॥ वामा विरावं प्रकरोति शांता भवत्यभिप्रेतफलानि तस्य ॥ ४८ ॥ यो वारुणीं याति दिशं मनुष्यः शृण्वञ्छिवाया रटितानि पृष्ठे। गतस्य तस्याशु हुताशभीतिरसंशयं स्याद्द्रविणक्षयश्च ॥ ४९ ॥ यस्योत्तराशां चलितस्य पुंसः प्राच्यां शिवा मुंचति फेत्कृतानि भानुः प्रतीच्यां विहितस्थितिश्वेदपेक्षितं सिध्यति तत्क्षणेन ॥ ५० ॥ मुंचत्युदीचीं चलितस्य पृष्ठे शिवा विरावं पुरुषस्य यस्य ॥ आस्ते च मध्ये नभसो विवस्वांस्तथार्थहानिर्मरणं च दृष्टम् ॥ ५१ ॥ ॥ टीका ॥
इति हैमः ॥ ४६ ॥ प्राचेतसीमिति प्रचेताः वरुणस्तस्पेयं प्राचेतसी पश्चिमा तां काष्ठां दिशं संचलितस्य पुंसः यदि दक्षिणेन मृगालिका जल्पति तदानीं सुबहूननथाकरोति पुंसः अर्थानपहंति ॥ ४७ ॥ दिशमिति । प्रचेतः परिपाल्यमानां दिशं पश्चिम काष्टामित्यर्थः । व्रजतो यस्य नरस्य शृगाली वामा विरावं प्रकरोति चेच्छांता तदा तस्य अभिप्रेतफलानि भवति ॥ ४८ ॥ य इति । यः पुमान्वारुणीं दिशं शिवायाः रटितानि पृष्ठे गृण्वन्याति तस्य गतस्य आशु शीघ्रमसंशयं हुताशभीतिः स्यात् । तथा द्रविणक्षयश्च स्यात् ॥ ४९ ॥ यस्येति ॥ उत्तराशां चलितस्य पुंसः प्राच्यां पूर्वस्यां शिवा फेत्कृतानि मुंचति चेद्भानुः प्रतीच्यां पश्चिमायां विहितस्थितिः तदा अपेक्षितं वांछितं क्षणेन सिद्ध्यति ॥ ५० ॥ मुंचतीति ॥ यस्य पुरुषस्य ॥ भाषा ॥
तो दीप्तफल देवै ॥ ४६ ॥ प्राचेतसीमिति || पश्चिमकूं गमन करै ताकूं जो जेमने भाग में शृगाली बोलै तो बहुतसे अनर्थ करे और अर्थकुंभी नाश करे ॥४७॥ दिशमिति ॥ पश्चिमदिशाकुं गमनकर्ताके शृगाली बांई भागमें बोले जो शांत होय तो वाकूं वांछितफल होय ॥ ४८ ॥ य इति ॥ जो पुरुष पश्चिमदिशाकूं जातो होय और पीठपीछे शृगालीको शब्द सुनतो हुयो चलै तो वाकूं शीघ्रंही निःसंदेह अग्निको भय होय और धनको क्षय होय ॥ ४९ ॥ यस्येति ॥ उत्तरदिशाकूं चलतो होय वा पुरुषकूं पूर्वदिशा में शृगाली बोले जो सूर्य पश्चिमदिशामें होय तो तत्क्षण वांछित सिद्धि होय ॥ ५० ॥ मुंचतीति ॥ जो उत्तखदि
For Private And Personal Use Only