________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिवारुते यात्राप्रकरणम् । वैवस्वताशां चलितस्य यस्य दिवाकरस्तिष्ठति दक्षिणेन ॥ शिवा च वामा कुरुते विरावं संपद्यते तस्य महीपतित्वम् ॥ ॥४३॥ पुमान्यदा याम्यककुष्प्रवासी करोति शब्दं पुरतः शृगाली ॥ आस्ते विवस्वानपि सम्मुखश्चेद्भवेत्तदानीमचिरेण मृत्युः ॥४४॥ नरस्य यामी ककुभं यियासोः शृगालभार्या यदि पृष्ठभागे ॥ फेकारमामुंचति पंचभावस्तत्सप्तरात्रेण भवत्यवश्यम् ॥ ४॥ दिशं प्रतीची जतः शृगाली नरस्य यस्याभिमुखा विरौति॥शांतस्थिताशांतफलप्रदात्रीदीप्ता तु दीप्तं फलमातनोति ॥४५॥
॥ टीका ॥
युक्ता शिवा न भवति तदानीं तस्य महीपतित्वं ध्रुवं भवेत् ॥ ४२ ॥ वैवस्वतेति ॥ वैवस्वताशां दक्षिणाशां प्रचलितस्य पुंसः दिवाकर दक्षिणेन अपसव्यभागेन तिष्ठति शिवाच वामं विरावं कुरुते तस्य महीपतित्वं संपद्यते । क्वचित् संपद्यते तस्य समस्तमिष्टमित्यपि पाठः ॥ १३॥ पुमानिति ॥ यदा पुमान्याम्यककुष्पवामी स्यात्। दक्षिणगामी भवेदित्यर्थः पुरतस्तस्य च शृगाली शब्दं करोति चेद्विवस्वानपि शृगाल्या सम्मुखः आस्ते तदानीमचिरेणाल्पकालेन गंतुः मृत्युः स्यात्॥४४॥नरस्येति॥ यामी ककुभं यियासोनरस्य यदि पृष्ठभागे शृगालभार्या फेत्कारमामुंचति तदा सप्तरात्रेण पंचभावः पंचानां भाव पंचत्वं मरणमवश्यं स्याता पंचत्वं निधनं नाशो दीर्घ निद्रा निमीलनम् इति हैमः॥४५॥दिशमिति॥प्रतीची पश्चिमां दिशं बजता नरस्य यस्य शृगाली अभिमुखा विरोति।तत्रायं विशेषायदि शांतास्थिता तदा शांतफलदा त्री स्यात् । दीप्ता तु दीप्तास्थिता तु दीप्तं फलमातनोति। प्रतीची स्यात्तु पश्चिमा"॥
॥भाषा॥ वैवस्वतेति ॥ पूर्व दिशाकू चले ताकू मूर्य तो जेमने भागमें होय ऋगाली बाई बोले तो वाकू पृथ्वीपतिपनो होय ॥ १३ ॥ पुमानिति ॥ जो पुरुष दक्षिण दिन जातो होय. वाके अगाडी शृगाली बोले जो सूर्यभी शृगालोके सम्मुख होय तो शीघ्रही गंताकी मृत्यु होय ॥ ४४ ॥ नरस्येति ॥ दक्षिणदिशामें गमन कर्ताकू जो पीटपीछे शृगाली शब्द बोले तो सात रात्रिमें मरण होय ॥ १५ ॥ दिशामिति ॥ पश्चिमदिशाकू गमन कर वाके सम्मुख बोले तो शांतदिशाम होच तो शांत फल देव और दीत दिशामें होय
For Private And Personal Use Only