________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिवारते यात्राप्रकरणम् । (४९९) वातस्तृतीये त्वशनिश्चतुर्थे म्रियेत कश्चित्खलु पंचमे च ॥ लभेत पृथ्वी निनदे च षष्ठे भीः सप्तमे स्यादिफलोऽष्टमस्तु ॥३६॥
इति शिवारुते स्वराष्टकप्रकरणम् ॥३॥ क्षेमलाभपुनरागमनानां निश्चयं समधिगम्य विशंकः ॥ येन याति पथिकः परदेशं तच्छिवारुतमथ प्रथयामः ॥ ॥३७ ॥ यं देशं गंतुमभ्युद्यतानां पुंसां शब्दानुच्चरंती शृगाली ॥ शांताशायां सिद्धये वांछितानां दीप्तायां तु स्यादभीष्टक्षयाय ॥ ३८॥
॥टीका॥ वात इति ॥ तृतीये शब्दे वातः स्यात् । चतुर्थेशनिः विद्युत्पातः । पंचमे शब्दे कश्चिन्नियेत । षष्ठे निनदे पृथ्वी लभेत । सप्तमे भीः स्यात् । अष्टमस्तु विफल:॥३६॥
इति वसंतराजशाकुने टीकायां शिवारुते स्वराष्टकप्रकरणं तृतीयम् ॥ ३॥ क्षेमेति ॥ अथ येन शिवारुतेन क्षेमलाभपुनरागमनानां क्षेमं कल्याण लाभः प्राप्तिःपुनरागमनं परावृत्त्यागमनम्।एतेषामितरेतरद्वंद्वातेषां निश्चयं समधिगम्य अवधार्य विशंकः शंकारहितः परदेशं याति । तच्छिवारुतं वयं प्रथयामः विस्तारयामः ॥ ३७ ॥ यंयमिति ॥ यंयं देशं गंतुमभ्युद्यतानां पुंसां शांताशायां शांतायां दिशि शब्दानुचरंती शृगाली वांछितानां मिद्धये भवति । दीप्तायां
॥ भाषा
शृगालीको दूसरो शब्द वृष्टि करै ॥ ३५ ॥ वाम इति ।। तासर शब्दमें वात पवन होय. चौथे शब्दमें वज्रपात होय. पांचमे शब्दमें कोई मरे. छठेशब्दमें पृथ्वीको लाभ होय. सातमें श. ब्दमें भय होय. आठमा शब्द तो निष्फल है ॥ ३६॥ इति वसंतराजशाकुने भाषाटीकायां शिवारते स्वराष्टकप्रकरणं तृतीयम् ॥३॥
क्षेमेति ॥ अब जा शृगालीके शब्द करके कल्याण लाभ परदेश जायकर पीछो आष. नो इनको निश्चय जानकरके पुरुष निःसंदेह परदेशकू जाय वो शृगालोको शब्द हम विस्तार करक कहे हैं ॥ ३७॥ यंयमिति ॥ जा जा देशकू जापबेकू तयारी करी मनुष्यनें उनकू शांत दिशामें शुगाली बोले तो वांछितनकी सिद्धि होय, और जो दप्ति दिशामें बोले
For Private And Personal Use Only