________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचेष्टितं जीवित मरणप्रकरणम् ।
(४६७)
कथ्यतेऽथ कपिलस्य चेष्टितं रोगिणो मरणजीवितेक्षणे ॥ लक्षणं चरकवाग्भटादिभिर्भाषितं यदतिशय्य वर्तते ॥ ॥ १५० ॥ लीढेऽथ वा जिप्रति सारमेयो हस्तस्य पृष्ठं तलमंगुलीर्वा || रोगातुरस्योपदिशत्यवश्यं तत्पंचतां वासरपंचकेन ॥ १५१ ॥ कर्णयुग्ममथ वेक्षणद्वयं नर्तयन्वदति वासरैस्त्रिभिः ॥ रोगिणो मरणमा लिहन्पुनर्नासिकां दशभिरंतकृद्दिनैः ॥ १५२ ॥
॥ टीका ॥
यः संतुष्टचित्तः शुभचेष्टितश्च रम्यारवः शुभशब्दकारी मनोज्ञे रम्ये स्थाने स्थले मूत्रं कुरुते असौ सरमासुतः अभिप्रेतपदार्थ लाभं करोति ॥ १४९ ॥
इति श्रीवसंतराजशाकुने टीकायां श्वचेष्टिते लाभप्रकरणमष्टमम् ॥ ८ ॥ कथ्यते इति ॥ अथ रोगिणः मरणजीवितेक्षणे मरणं मृत्युः जीवितम् जीवनं तयोः ईक्षणं विलोकनं तस्मिन्कपिलस्य तच्चेष्टितं कथ्यते यत्कपिलचेष्टितं चरकवाग्भटादिभिर्भाषितं लक्षणमतिशय्य अतिक्रम्य वर्तते ॥ १५० ॥ लीढे इति ॥ यदि सारमेयः हस्तस्य पृष्ठं तलं अंगुलीर्वा लीढे आस्वादयति अथ वा जिघ्रति आम्राणं करोति तदा रोगातुरस्य वासरपंचकेन पंचतां नाशमवश्यमुपदिशति । "पंचत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् ॥ इति हैमः ॥ १५१ ॥ कर्णेति ॥ कौलेयकः कर्णयुग्ममथ वा ईक्षणद्वयं लोचनयुग्मं नर्तयन्वासरैस्त्रिभि रोगिणो मरणं वदति । पुन र्ना -
! भाषा ॥
करतो ह्येय सुंदर स्थानमें सूत्र करें वो श्वान वांछित पदार्थको लाभ करे ॥ १४९ ॥
इति श्रीवसंतराजशाकुने भाषाटीकायां श्वचेष्टिते लाभमकरणमष्टमम् ॥ ८ ॥
कथ्यते इति ॥ रोगी मरण जीवनको देखनो तामें चरक वाग्भटादिकनने जो श्वान - की चेष्टा लक्षण कही हैं उनसे जे अधिकवतें हैं तिने मैं कहूं हूं ॥ १५० ॥ लीढे इति ॥ जो श्वान हाथको पृष्ठभाग वा अंगूली इर्ने चाटें वा सूंघे तो रोगीकूं पांचदिनमें अवश्य मृत्यु करे ॥१९१॥ कर्णेति ॥ श्वान दोनो काननकूं वा दोनों नेत्रनकूं नचावे तो तीन दिनकरके रोगीकूं
For Private And Personal Use Only