________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिंगलारुतेऽधिवासनप्रकरणम् ।
(३२३) क्रमेण काष्ठासु दशस्वपीह निवेशनीया दशलोकपालाः ॥ इंद्राग्निकालासपपाशिवायुयक्षेश्वरा उर्द्धमजोऽच्युतोऽधः ॥ ॥१०॥ नमोयुतैः सप्रणवैश्च सर्वैः स्वनाममंत्रैः क्रमतोऽर्चनीयाअासनालपनपुष्पधूपनैवेद्यदीपाक्षतदक्षिणाभिः ११ अथ मंत्रः ॥ ॐ वृक्षस्थानाय नमः। इत्यासनमन्त्रः। ॐ ह्रीं श्री के चामुंडे हुं नमोऽस्मिन्वृक्षे अवतर अवतर स्वाहा।।अनेन मंत्रेण चंडी वृक्षेऽवतारयेत् । ॐ पिंगले मेखले रेवति
॥ टीका ॥ उर्दास्यमूर्द्धमुखं पिंगयुगं पक्षिमिथुनं मृदादिना प्रकल्प्य सरोजे निवेशयेत् । तथा वक्ष्यमाणध्यानाकृति पिष्टमृदादिसृष्टां चंडीमपि निवेशयेदित्यर्थः ॥९॥ क्रमेणोति ॥ क्रमेण दशसु काष्ठामु इंद्रामिकालास्त्रपपाशिवायुयक्षेश्वराभिधाना लोकपालाः तत्र निवेशनीयाः । तत्र इंद्रः प्रसिद्धः अमिर्वैश्वानरः कालो यमः अस्सपोराक्षसः पाशी वरुणः वायुः समीरणः यक्षः कुबेरः ईश्वरो भगवान् तथा ऊर्द्धमजः ब्रह्मा अधः अच्युतश्च निवेशनीयः॥ १० ॥ नम इति ॥ पूर्वमेव व्याख्यातत्वादु. पेक्षितम् । अथ मंत्रः । ॐ वृक्षस्थानाय नमः इत्यासनमंत्रणासनाभिमंत्रणम् । ॐ हीश्री चामुंडे नमोऽस्मिन्वृक्षेऽवतर अवतर स्वाहा । अनेन मंत्रेण चंडी वृक्षेऽवता. रयेत् । ॐ पिंगले मेखले रेवति रात्रिचारिणि ब्रह्मपुत्रि सत्यमेतद् ब्रूहि मे स्वाहा । इत्याह्वानमन्त्रः । अनेन मन्त्रेण पक्षिण आह्वानम् । ॐ काहींनीहूं चिलिचिलि वौषट् । इति पूजाजाप्यहोममन्त्रः। ॐ सिद्धिचामुण्डे कृष्णपिंगले स्वाहा। नमो भगवति कालरात्रि मन्त्रमूर्तिमहेश्वरि चामुडे प्रजापालिनि योगेश्वरि आगच्छागच्छ एोहि तिष्ठतिष्ठ । ॐ ह्रीं चिलिचिलि शब्दाय स्वाहेत्यधिवासनमंत्रः ॥ ११ ॥
॥ भाषा॥ ऐसो एक पिंगलको जोडा बनाय वा कमलमें बैठाय दे और अगाडी ध्यानकी आकृति कहेंगे वैसी चनकी वा मृत्तिकादिककी बनी हुई चण्डकि भी स्थापन करै ॥ ९ ॥ क्रमेणोति ॥ कमकरके दशों दिशानमें इंद्र, अग्नि, यम. राक्षस, वरुण, वायु, कुबेर, रुद्र ऊपर ब्रह्माजी नीचे अच्युत ये दशलोकपाल देवता स्थापन करै ॥ १० ॥ नम इति ॥ ॐ इंद्राय नमः बा रीतसूं नाम मन्त्रनकर क्रमसूं अर्ध्य, आसन, चन्दन, पुष्पाक्षत, धूप, दीप, नैवेद्य, दक्षिणानकरके पूजन करै ॥ ११ ॥ ये आसनमंत्रकू आदिले अधिवासन ताईके मंत्र मूलमें हैं यहां टीकामें नहीं लिखै मूलमेसू जान लेनो. ।।
For Private And Personal Use Only