________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पक्षिविचारप्रकरणम्। अनेन मन्त्रेण विधाय सम्यक्पूजोपहारः पुरुषो यियासुः ॥ अभ्यर्चयेदुद्यतकार्यसिद्धिं ज्ञातुं विशेषाद्विहगेषु चाषम् ॥ ॥२॥ प्रदक्षिणं स्वस्तिकमध्यगत्या गृहीतभक्ष्यो विदधाति चापः॥ अभीष्टलाभाय यदा तदास्य सर्वत्र शस्तं रुतमीक्षणं च ॥३॥ चापं व्रजंतं यदि दक्षिणेन काको जयेत्पांथपराजयः स्यात् ।। चाषोऽथ काकं जयति प्रदिष्टस्तदाध्वगानां विजयो विदेशे ॥४॥
॥ टीका॥
यदभिमतं तदर्थमित्यर्थः कीदृशं त्वां स्वर्णचूडमाणिकंठविशोकमिति स्वर्णस्य चूडा यस्य स तथा मणिः कंठे यस्य स तथा विगतः शोको यस्मात्स तथा पश्चात्कर्मधारयः। स्वस्ति काख्यामिति स्वस्तिक इति आख्या यस्य स तथा अपराजितसंज्ञमपराजिता संज्ञा यस्य सः तं नंदिवर्धनं नन्दिरानंदस्तेन वर्धते यः स तथा अशोकमिति शोकवर्जितम् ॥ १॥ अनेनेति ॥ यियासुः पुरुषः उद्यतकार्यसिद्धिं ज्ञातुं विशेषाद्विहगेषु चापम् अभ्यर्चयेत् कैः अनेन पूर्वोक्तेन मंत्रेण सम्यक् स्तुति विधाय पूजोपहारैरिति पूजा चंदनादिः उपहारो बलिस्तैरित्यर्थः ॥ २॥ प्रदक्षिणमिति ॥ यदि चापः स्वस्तिकमध्यगत्या गृहीतभक्ष्यः सन् प्रदक्षिणं विदधाति तदाऽभीष्टला. भाय स्यात् । एतस्य सर्वत्र रुतमीक्षणं च शस्तम् ॥ ३ ॥ चामिति ॥ यदि दक्षिन चापं व्रजंतं काको जयेत् तदा पांथपराजयः स्यात् यदि चापः काकं जयति तदा
॥ भाषा
और शोककर रहित अपराजित जाकी संज्ञा आनंदकरके बढ रह्यो ऐसे जो तुम ताय नमस्कार करूं हूं. चाष नाम नीलकंठको है. ॥ १ ॥ अनेनेति ॥ गमनकता पुरुष कार्थकी सिद्धि जानबेकू विशेषकर पक्षीनमें श्रेष्ठ चाष ताय पूर्व मन्त्रकर स्तुति करके फिर चन्दनादिक उपहार बलिकरके पूजन करे ॥ २ ॥ प्रदक्षिणमिति ॥ जो चाष स्वस्तिकगति करके भक्ष्य पदार्थ ग्रहण करे हुये प्रदक्षिणा करै तो अभीष्टफलको लाभ करे. याको शब्द और देखनो सर्व दिशानमें शुभकारी है ॥ ३ ॥ चामिति ॥ जो दक्षिणमाऊं चाष गमन करतो होय बाकू काक जीतले तो पांथ पुरुषकू भी पराजय, करै और जो चाष काककं जीतले
For Private And Personal Use Only