________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- पोदकीरुते वृष्टिप्रकरणम् । कृष्णविहंगयुगं सरवं चेदाममुपैत्यथ निर्वहतेऽग्रे ॥ यस्य नरस्य वदत्यपवादं गच्छति तदनिता सह तेन ॥३२५ ॥ सौम्यरवौ यदि वामविभागादक्षिणमेत्य खगौ खलु शांतम् ॥ आश्रयतो न तदान्यमनुष्यं ध्यायति योषिदसौ मनसापि॥ ॥३२६॥
इति सत्यसतीपरीक्षाप्रकरणम् ॥ १५॥ प्राणत्यमी प्राणभृतोऽशनेन तस्यांबुना जन्म तदं मेघात्।। मेघो भवेत्प्रावृषि तेन तस्याः श्यामारुतेऽस्मिन्क्रियते विमर्शः ॥ ३२७॥
॥टीका ॥
मिलति तदा तस्या युवतेः स्वजनाद्यभिचार: स्यात् ॥ ३२४ ॥ कृष्णेति ॥ यदि कृष्णविहंगयुगं सरवं वाममुपैत्यथाग्रे निर्वहते तदा यस्य नरस्य अपवाद वदति तेन सह तद्वनिता गच्छति ॥ ३२५ ॥ सौम्यरवाविति ॥ यदि सौम्यरवौ खगौ वामविभागादक्षिणमेत्य शांतं स्थानं आश्रयतः तदासौ योपिन्मनसाप्यन्यमनुष्यं न ध्यायति ॥ ३२६ ॥ इति श्रीशत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभा. नुचन्द्रविरचितायां वसंतराजटीकायां पोदकीरुते सत्यसतीपरीक्षामकरणं पंचदशम् ।। १५ ।। प्राणंतीति ॥ अमी प्राणभृतः अशनेन प्राणंति तस्य अशनस्य अंबुना जन्न स्यात् तदम्बु मेघाद्भवति । मेघश्च प्रावृषि भवेत् तेन कारणेन तस्याः प्रावृषः
॥ भाषा॥
मिले तो ता स्त्रीकू स्वजनते व्यभिचार होय ।। ३२४ ॥ कृष्णेति ॥ कृष्ण विहंगको युगल शब्द करत वामभागमें आय करके अगाडी अगाडी चले तो स्त्री सहित गमन करै ता पुरुषको अपवाद करै ॥ ३२५ ॥ सौम्यरवाविति ॥ जो सुन्दर शब्द करत दोनों पक्षी वामभागते दक्षिण भागमें आय करके शांतस्थानमें स्थित होय तो स्त्री मनकरके भी अन्य मनुष्यकू चिंतमन न करै ।। ३२६ ॥ इति श्रीवसंतराजभाषाटीकायां पोदकीरुते सत्यसतीपरीक्षाप्रकरणम् पंचदशम् १५
प्राणंतीति ।। प्राणधारी भोजनकरके पुष्ट होय हैं. ता अन्नको जन्म जल करके होय है. वो जल मेघते होय है. और मेघ वर्षाऋतुमें होय है, ताकारणकरके मेधको विचार पोदकीके
For Private And Personal Use Only