________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरते परीक्षाप्रकरणम्।
(१९७) इति वसंतराजविरचिते शकुनशास्त्र यात्राप्रकरणं चतुर्दशम ॥१४॥गार्हस्थ्यमूलं गृहिणी नराणां सा चेत्सुलीला सफलं तदातत्॥दोषस्तु तस्या नरकाय तत्स्यान्मस्ततः सत्यसतीपरीक्षाम् ॥३१८॥ आलिख्य पत्रे वरवर्णिनी तां स्फुरत्सदृक्षाकृतिवर्णरूपाम् ॥ यस्यामसाध्वीति भवेद्वितर्को व्यक्तं ततो नाम लिखेल्ललाटे । ३१९ ॥ आदाय तच्छाकुनिकोऽथ पत्रं गत्वा ततस्तोरणसंनिवेशम् ॥ अभ्यर्च्य मंत्रेण करे निधायापृच्छेत्वगद्वंद्वमियं सतीति ॥३२० ॥
॥ टीका ॥ इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां
वसंतराजटीकायां पोदकीरते यात्राप्रकरणं चतुर्दशम् ॥ १४ ॥ गार्हस्थ्येति ॥ ततः तस्मात्कारणात् सत्यसतीपरीक्षा वयं ब्रूमः यतः नराणां गृहिणी गार्हस्थ्यमूलं सा चेत्सुशीला तदा तद्गार्हस्थ्यं सफलं स्यात् । तस्यास्त्रियाः दोषैस्तु तन्नरकाय स्यात् ॥ ३१८॥ आलिख्यति ॥ तां वरवर्णिनी स्फुः रत्सहक्षाकृतिवर्णरूपामिति स्फुरति सहक्षाणि आकृतिवर्णरूपाणि यस्याः सा तथा पत्रे आलिख्य यस्यामसाध्वीति वितर्को भवेत् ततः तन्नाम ललाटे लिखेत्।। ॥३१९ ॥ आदायेति ॥ तच्छाकुनिकः पत्रमादाय ततः गृहीत्वा तोरणसंनिवेश गत्वा तत्पत्रं मंत्रण अभ्यर्च्य करे निधाय पृच्छेद्यूयं वदध्वं किमियं सतीति॥३२०॥
॥ भाषा ॥ तब चाकू जेमने माऊंसे उडकर वाम आयजाय तो शुभ करें. और जो वामते दक्षिण आयजाय तो येभी वाके संग चल्यो जाय नहीं तो सुख नहीं होय ॥ ३१७ ।।। इतिश्री जटाशंकरतनयज्योतिर्विच्छीधरविरचितायां वसंतराजभाषाटी
कायर्या पोदकीरते यात्राप्रकरणं चतुर्दशम् ॥१४॥ गार्हस्थ्येति ॥ मनुष्यनके स्त्री गृहस्थाश्रमको मूल है वो स्त्री सुशीला होय तो गृहस्थाश्रम सफल है. जो दुःशीला स्त्री होय तो ताके दोषनकरके पुरुषन• नरक होय. ताते सत्यसतीकी परीक्षा हम कहैहैं ॥ ३१८ ॥ आलिख्येति ॥ सुंदरनेत्र आकृति रूप वर्ण जाको ऐसी स्त्री पत्रमें लिखकरके यह असाध्वी है ऐसी तर्कना जामें होय ता स्त्रीको नाम चाके ललाटमें लिखै ॥ ३१९ ॥ आदायेति ॥ शकुनी वा पत्रकू लेके पीछे तोरण रच
१ सती चासती च तयोः परीक्षेति द्वन्द्वगर्भतत्पुरुषः सा ताम् ॥
--
For Private And Personal Use Only