________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते गर्भप्रकरणम् । . ( १८९ ) सुस्वरो व्रजति दक्षिणभागं शोभनं श्रयति देशविशेषम् ॥ वाममाश्रयति वाथ निवृत्ती बालको भवति तच्चिरजीवी ॥ ॥२८९॥ पुंखगो विततदक्षिणपक्षस्तारगः श्रितमनोहरदेशः दर्शितप्रचुरशोभनचेष्टो मंक्षु यच्छति शिशोर्नृपतित्वम् ॥ ॥२९० ॥ पूर्वोक्तरूपेण यदा विहंगी प्रयाति तज्जन्मभवे. त्कुमार्याः॥पूर्वोदितैः पुत्रगुणैर्युताया इत्याहुगर्याः कृतलोककार्याः ॥ २९१॥ इति पोदकीरुते गर्भप्रकरणं द्वादशम् ॥ १२॥
॥टीका ॥ येद्रुवं तदास कृपणस्वभावो भवेत् ॥ २८८ ॥ सुस्वर इति ॥ सुस्वरः दक्षिणभागं व्रजति पुनः शोभनं देशविशेषं श्रयति अथ निवृत्तौ वामं श्रयति तदा बालकः त. चिरजीवी स्यात् ॥ २८९ ॥ पुंखग इति ॥ यदि पुंखगः विततदक्षिणपक्षः संस्तारगो भवति । कीदृग् आश्रितमनोहरदेशः पुनः कीदृग दर्शितप्रवुरशोभनचेष्ट इति दर्शिता प्रचुरा शोभनचेष्टा येन स तथा। स शिशोर्नृपतित्वं मंक्षु यच्छति॥२९॥ पूर्वोक्तेति ॥ यदा विहंगी पूर्वोक्तरूपेण पूर्वोक्तप्रकारेण प्रयाति तदा कुमार्याः जन्म भवेत् । कीदृश्याः पूर्वोदितैः पूर्वप्रतिपादितैः पुत्रगुणैः युतायाः कृतलोककार्याः आर्या इत्याहुः ॥ २९१ ॥ इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंदविरचि
तायां वसंतराजटीकायां पोदकीर्ते गर्भप्रकरणम् ॥ १२ ॥
॥ भाषा॥
निश्चयही वो बालक कृपण होय ॥ २८८ ॥ सुस्वर इति ॥ सुंदरशब्दकर दक्षिणभागमें गमनकर फिर शुभदेशमें स्थित होय अथवा निवृत्तिसमयमें वामभागमें स्थित होय तो बालक चिर जीवी होय ॥ २८९ ॥ पुखग इति ॥ जो पुरुषपक्षी जेमने पंखकू फैलायकर जेमनो होय सुंदरस्थानपै बैठकर शुभचेष्टा करे तो बालककू समूहको राजाकरै ।। २९० ॥ पूर्वोक्तेति ॥ जो विहंगी पूर्व कहेहुये प्रकारकरके गमन करे तो पूर्व कहे जे पुत्रगुण उनकरके युक्त कुमारीके पुत्रको जन्म होयपे लोकनके कार्य करबेवाले आर्यपुरुषनको कथनहै ॥ २९१ ॥
इति वसंतराजशाकुने भाषाटीकायां पोदकीरते गर्भप्रकरणं द्वादशम् ॥ १२ ॥
For Private And Personal Use Only