________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते यात्राप्रकरणम् । (१४५ ) आद्यद्वितीयांतिमसंज्ञकेषु तारा यदि विष्वपि तोरणेषु॥ भवेत्तदा मत्तमतंगजाश्वस्त्रीरत्नरत्नोपचिता समृद्धिः॥१३३॥ याचापि भूमित्रितयस्य मध्ये पुनःपुनर्गच्छति वामभागे । प्रारब्धकार्यस्य विनाशनेन सा वक्रतारा कथितेह दुर्गा ॥ ॥१३४ ॥ एका भयं संविदधाति वामा करोति मृत्योर्वशगं द्वितीया । भवेत्कथंचिद्यदि सा तृतीया भवेत्तदानीं धमजीवनाशः॥ १३५॥
॥ टीका ॥
तत्र भवेत्तदा राज्यमप्यदुर्लभं प्रदिष्टं कथितम् ।। १३२ ॥ अथ क्षेत्रिकमाश्रित्य चाह आयेति ॥ आद्यद्वितीयांतिमसंज्ञकेषु इदमाद्यं प्रथम द्वितीयमिदमंतिमंचरममिति संज्ञकं स्वार्थ कः । नाम विद्यते येषां तथोक्तास्तेषु विष्वपि तोरणेषु यदि तारा भवेत्तदा मत्तमतंगजाश्वस्त्रीरत्नरत्नोपचितेति मत्ताः मतंगजाः मत्तहस्तिनः अश्वाः प्रतीताः स्त्रीरत्नं सर्वोत्कृष्टा स्त्रीरत्नानि हीरकादीनिःप्रतीतानि मत्ताश्च ते मतंगजा. बेति पूर्व कर्मधारयः। ततो मत्तमतंगजाश्च अश्वाश्च स्त्रीरलं च रत्नानि चेतरेतरद्वंन्दः । तैरुपचिता व्याप्ता समृद्धिः संपत्स्यात् ॥ १३३ ॥ या चापीति॥ या भूमित्रितयस्य मध्ये पुनःपुनः वामभागे गच्छति सा इह प्रारब्धकार्यस्य दिनाशनेन दुर्गा वक्रतारा कथिता ॥ १३४ ॥ एकेति ॥ एका वामा भयं संविदधाति करोती त्यर्थः। द्वितीया वामा मृत्योर्वशगं करोति यमवशवर्तिनं विदधाति कथंचिद्यदि सा वामा तृतीया भवेत्तदानीं धनजीवनाशः धनं च जीवश्चेतिद्वंदः। तयो शो वि
॥ भाषा॥
राज्यभी देव ॥ १३२ ॥ आयोति ॥ पहलो दूसरो तीसरी इन तीनों तोरणनमें जो तारा होय, तो मतवाले हाथी, घोडा, स्त्रीरूपी रत्न, और रत्नकरके बढी ऐसी ऋदिवान् 'संपदा होय ॥ १३३ ॥ या चापीति ॥ जो तारा तीनो भूमिमें वारंवार वामभागमें आवे तो वो तारा सर्वकार्यकी विनाश करवेवारी वक्रतारा कही है ॥ १३४ ॥ एकेति ॥ एकताये वामा होय तो भय करे, और दूसरीभी वामा होय तो मृत्युके वशीभूत करे, और जो कहूं
For Private And Personal Use Only