________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १०५ )
पोदकीरुते अधिवासनप्रकरणम् । मन्त्रोऽर्जुनाख्याः शकुनेस्तथाख्याः सर्वत्र पूजादिविधौ प्रयोज्याः ॥ पूज ( विदध्याद्भवने वने च होमं दशांशेन जपाद्विदध्यात् ॥ २८ ॥ भोजयेदथ गुडाज्यपायसैः श्रद्धया कतिपयाः कुमारिकाः ॥ आत्मनापि विदधीत भोजनं तद्गुरु स्वजनबंधुभिः समम् ॥ २९ ॥ ततो रजन्यां समुदीर्य मंत्र ध्यात्वा च देवीं विधिनोदितेन || विचार्य कार्य मनसा समस्तं शयीत भूमौ विजने व्रतस्थः ||३०|| अथ प्रभातेऽभ्युदिते दिनेशे सहायवान्नर्मल शुक्लवासाः ॥ भूयः समं शाकुनिकेन यायादनाकुलस्तोरणभूमिभागम् ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
॥ टीका ॥
मंत्र इति ॥ मंत्रः पूर्वोक्तः अर्जुनाख्याः अर्जुननामानि तथा शकनेः पांडविकायाः आख्याः सर्वत्र पूजाविधौ प्रयोज्याः पूजां भवने गृहे विदध्यात् वने च जपात् दशशिन तद्दशमभागेन होमं विदध्यात् ॥ २ ॥ २८ ॥ भोजयेदिति ॥ अथेति गृहपूजानंतरं कतिपयाः कुमारिकाः श्रद्धया भोजयेत् । कैः गुडाज्यपायसैरिति गुडः प्रसिद्धः आज्यं सर्पिः पायसं दुग्धं वा परमान्नं तैरित्यर्थः । आत्मनापि स्वयमपि तद्भोजनं विदधीत । कथं समं सह कैस्तद्गुरुस्वजनबंधुभिरिति स चासौ गुरुश्चेति तद्गुरुः शकुनाचार्यः स्वजनाः प्रतीताः बान्धवः भ्रातरः तैः सार्द्धमित्यर्थः ॥ २९ ॥ ॥ तत इति ॥ पूर्वमेव व्याख्यातम् ॥ २० ॥ अथेति । अथानंतरं
॥ भाषा !!
पूजा करके वो जो पक्षीकी पूजा गुरुनकूं निवेदन करके अपने हृदयमें कार्यविचारके गुरुनकूं नमस्कारकर फिर अपने घरकूं गमनकरै ॥ २७ ॥ मंत्र इति ॥ घरमें बावनमें पूर्व कह्यो जो मंत्र, और अर्जुनके नाम और श्याम के नाम ये सर्व पूजाविधिमें उच्चारणकरे और जपते दशांश हवनकरे ॥ २८ ॥ भोजयेदिति ॥ पूजा करे पीछे श्रद्धाकर गुड धृत पायस इन करके कितनी कुमारी कन्या जिमावे फिर गुरु स्वजन भैया बंधु इनसहित आप भोजनकरै ॥ २९ ॥ तत इति ॥ इतनो करे पीछे व्रती रात्रि में मंत्र उच्चारण कर विधिपूर्वक देवीको व्यानकरे मनमें सर्व कार्य विचारकरके वनमें वा घरमें पृथ्वी में शयन करे ॥ ३० ॥ अथेति ॥ प्रभातसमय में सूर्यको उदय होय तत्र सहायी मनुष्य दो तीनलेके शुक्लवस्त्र
For Private And Personal Use Only