________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वजालग्गं
[87 : ८.५87) जंजि खमेइ समत्थो धणवंतो जं न गव्यमुव्वहह ।
जं च सविज्जो नमिरो तिसु तेसु अलंकिया पुहबी ॥ ७ ॥ 8) छंदं जो अणुवट्टर मम्मं रक्खइ गुणे पयासेइ ।
सो नवरि माणुसाणं देवाण वि वल्लहो होइ ॥ ८॥ 89) उणवंचणेण वरिसो नासइ दिवसो कुभोयणे भुत्ते ।
कुकलत्तेण य जम्मो नासइ धम्मो अहम्मेण ॥९॥ छन्नं धम्मं पयर्ड च पोरिसं परकलत्तवंचणयं । गंजणरहिओ जम्मो राढाइत्ताण संपडइ ॥ १०॥
87) [ यत् खलु क्षमते समर्थो धनवान् यन्न गर्वमुद्रह ति। यच्च सविद्यो नम्रस्त्रिभिस्तैरलङ्कृता पृथ्वी । ] त्रिभिरेवालङ्कृता पृथ्वी। कैः कैरित्याह । यत् क्षाम्यात समर्थः । धनवांश्च यद्गर्वं नोद्वह ति। यच्च सविद्यो नमिरो नम्रः ॥ ८७ ॥
४२) [छन्दं योऽनुवर्तते मर्म रक्षति गुणान् प्रकाशयति । स न केवलं मानुषाणां देवानामपि वल्लभो भवति ।।] छन्दं योऽनुवर्तते । कोऽर्थः। स्वामिनं प्रति । स्वामी कथयति दक्षिणामपि पूर्वी दिशं यदा, तदा यः सेवकः स वक्ति " इयं पूर्वैव दिग न दक्षिणा" । तथा वटो वटोऽयं न भवति, किंतु पिपल इति, तत्र पिपल एवेति वक्ति । इदं छन्दानुवर्तनम् । मर्म रक्षति, गुणान् प्रकाशयति । स न केवलं मनुष्याणां, देवाना वल्लभो भवतीत्यर्थः ।। ८८ ।।
89) [क्षणवञ्चनेन वर्षों नश्यति दिवसः कुभोजने भुक्ते। कुकलत्रेण च जन्म नश्यति धोऽधर्मेण ।। ] क्षण उत्सवो दीपोत्सवादिः । तस्य वश्चनेनाकरणेन वर्षों नश्यति । दिवसः कुभोजने भुक्ते। जन्म कुकलत्रेण, अधर्मेण धर्मोऽपि नश्यति ।। ८९॥
___90) [ छन्नो धर्मः प्रकटं च पौरुषं परकलत्रवञ्चनम् । कलङ्करहितं जन्म भव्यात्मनां संपद्यते ॥ धर्मश्छन्नोऽप्रकटः । प्रकटं च पौरुषम् । परकलत्रवञ्चनम् । कलङ्कर हितं जन्म । राढाइत्ताण भव्यात्मनां भाग्यवतामिति यावत् । भवति संपद्यते ॥ ९ ॥
For Private And Personal Use Only